Book Title: Mohan Charitam Author(s): Damodar Sharma Publisher: Damodar Sharma View full book textPage 2
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ॥ विज्ञापना॥ विदितमेतद्विदुषां यदेतस्मिन्मारते वर्षे चिरंतनानि धर्मप्रतिपादकानि दर्शनानि कालदोपादनु दिनं निदाघसमये सरांसीव तानवं भजन्ते । विरलतराचास्मिन्समये स्वयं समयानुसरणेन भविकसंघ सन्मार्ग प्रापयन्तः सन्तोऽपि प्रत्यूपे तारकापुञ्जा इव । तद्यदि कोऽपि मरुष्वमरतरुरिवान्धतमसे प्रदीप इव भवदवदग्धान्मिथ्याभिनिवेशान्धांश्च जनानुपदेशामृतं पाययित्वा सम्यक्त्वमदीपं च दत्त्वानुगृह्णीयात्तत्स लोकोत्तरगुणभाजनं पुरुषपुङ्गवः सर्वेषां गुणग्राहकाणां प्रशंसनी| योऽभ्यर्चनीयश्च नात्र संशीतिः । सांप्रतं खरतरगच्छनभोनभोमणिकल्पाः श्रीमन्मोहनमुनयः सर्व ज्ञवचनानुगुणयुक्तियुक्तप्रबोधदानेन दुर्जनानां दौजन्यमपहरन्त एतामवसर्पिणीमुत्सर्पिणीदेश्यां | विदधते । चरितगतेपामा जन्मतः श्रवणीयमभिनन्दनीयमनुकरणीयं चेत्यवधार्य जैनग्रन्थोत्ते जिकया पर्षदा प्रोत्साहितः स्वयमनुभूतं श्रुतं चानुरुद्ध्येदं यथामति प्राणयम् । इदं चामूलान्निरीक्ष्य संस्करणे साहाय्यं ददतां गाडगिळोपाइकेशवात्मजदिनकरशास्त्रिणां महान्तमुपकारभार For Private and Personal Use OnlyPage Navigation
1 2 3 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 ... 159