Book Title: Mallikamakarandanatakam
Author(s): Ramchandra Mahakavi, Punyavijay
Publisher: L D Indology Ahmedabad

Previous | Next

Page 184
________________ १ २ ३ १ २ ३ ४ १ २ द्वितीयं परिशिष्टम् : मल्लिकामकरन्दनाटकान्तर्गतानि महाकविश्रीरामचन्द्रस्य सुभाषितानि रमणीयता तं चिय परमत्थेणं रमणिज्जं जत्थ हिययवीसामो । हरिसंति असोयलया जेणं पायप्पहारेहिं ॥ ( तद् एव परमार्थेन रमणीयं यत्र हृदयविश्रामः । हृष्यन्ति अशोकलताः येन पादप्रहारैः ॥ ( इति च्छाया ) अन्योन्यं विषयाणां गुरुलघुभावो न कोऽपि यदि नाम । अन्यैव तदपि रेखा गोतीनां कामिनीनां च ॥ यद् यस्य नाभिरुचितं न तत्र तस्य स्पृहा मनोज्ञेऽपि । रमणीयेऽपि सुधांशौ न नाम कामः सरोजिन्याः ॥ नीरसानां पुरो नाट्यं दुर्जनानां पदातिताम् । ग्राम्याणां वाग्मितां कुर्वन् हास्यो ब्रह्माऽपि जायते ॥ रसिकार सिकौ रसपीयूषपूर पूर्णचेतसः सुमेधसः पुरस्कृत्य महाकवयो नाटय प्रबन्धानाबध्नन्ति । न पुनः कलगीतिकामिनीभ्योऽपि विमुखान् महासुभटोत्साहदर्शनेऽपि अरोमाञ्चकञ्चुकान् मातृ-पितृभ्रातृ - सुतविपत्तावप्यनार्द्रमानसान् निर्व्याजसेवकेऽप्यस्वीकृतवात्सल्यान् पाषाणसुहृदो दुर्मेधसः । - पृ. १-२ गीतमपि रक्तकण्ठैरुद्घटितं प्रीतये किल न येषाम् । पाषाणसोदराणां तेषामेषोऽज्ञ्जलिर्बद्धः ॥ ४.१२ प्रेम तं किंपि कामिणीणं कत्थ वि पिम्मं जणम्मि निव्वडइ । झिज्जति जेण डज्झति जेण जेणं विवज्जति ॥ [ तत् किमपि कामिनीनां कुत्रापि प्रेम जने संजायते । क्षीयन्ते येन दह्यन्ते येन येन विपद्यन्ते ॥ - इति च्छाया ] - १.४ प्रशमरसिक वैदुष्येण धर्म देशनाविधानैकप्रगल्भवाचो वाचंयमाः शृङ्गार- हास्य- वीर - प्रमुखरसमयानामन र्हाः खलु नाटघप्रबन्धानाम् । [ नहि नहि ] शमस्तत्त्वं मुनीन्द्राणां जानते तु जगन्त्यपि । जन्मैव दिवि देवानां विहारो भुवनेष्वपि ॥ रोगेऽपि विप्रयोगेऽपि शोकेऽपि व्यसनेऽपि च । क्षुतू-पिपासा - स्मरा: प्रायो विमुञ्चन्ति न देहिनम् ॥ Jain Education International - ३. २ - ४. ११ For Private & Personal Use Only -५.४ - १.६ -२.१ -२.२ www.jainelibrary.org

Loading...

Page Navigation
1 ... 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212