Book Title: Mallikamakarandanatakam
Author(s): Ramchandra Mahakavi, Punyavijay
Publisher: L D Indology Ahmedabad

Previous | Next

Page 192
________________ 147 नूतन-काव्य-निर्मिति-विषये महाकवि-श्रीरामचन्द्रस्य दर्पोक्तिः सूत्रधार :- अत्रार्थे तेनव कविना दत्तमुत्तरम् - जनः प्रज्ञाप्राप्तं पदमथ पदार्थ घटयतः पराध्वाध्वन्यान् नः कथयतु गिरा वर्तनिरियम् । अमावास्यायामप्यविकलविकासीनि कुमुदा-- न्ययं लोकरचन्द्रव्यतिकरविकासीनि वदति ॥ अपि च शपथप्रत्येयपद-पदार्थसंबन्धेषु प्रतिमादधानं जनमवलोक्य जातखेदेन तेनेदं चाभिहितम् - स्पृहां लोकः कान्ये वहति जरठैः कुण्ठिततमै वैचोभिर्वाच्येन प्रकृतिकुटिलेन स्थपुटिते । वयं वीथिं गाढुं कथमपि न शक्ताः पुनरिमा मियं चिन्ता चेतस्तरलयति नित्यं किमपि नः ॥ नल० १. २-८ ई) सूत्रधार :- ....( विहस्य ) सरसतायां किमुच्यते प्रबन्धस्य । यतः - व्युत्पत्तिर्मुखमेव नाटकगुणव्यासे तु किं वर्ण्यते __ सौरभ्यप्रसवा नवा भणितिरप्यस्त्येव काचित् क्वचित् । यं प्राणान् दशरूपकस्य स करोत्क्षेपं समाचक्षते साहित्योपनिषद्विदः स तु रसो रामस्य वाचां परम् ।। किं च । प्रबन्धा इक्षुवरप्रायो हीयमानरसाः क्रमात् । कृतिस्तु रामचन्द्रस्य सर्वा स्वादुः पुरः पुरः ॥ अपि च । कोऽप्येष वः परमहर्षोत्सवो वर्तते । तदवधीयतां क्षणमेकम् । सूक्तयो रामचन्द्रस्य वसन्तः कलगीतयः । स्वातन्त्र्यमिष्टयोगश्च पञ्चैते हर्षवृ( स )टयः ॥ सत्यहरिश्चन्द्रनाटके १.३-५ 3) सूत्रधार :- --- अकाण्डप्रसन्नचेतसा वेधसा तत्रभवतां भवतां सोऽयमिदानोमुपनीतः प्रमोदप्रकर्षः । यत: ऊ ) सूक्तयो रामवन्द्रस्य पूर्णेन्दुः कलगीतयः । स्वातन्त्र्यामिष्टयोगश्च पञ्चैता हर्ष वृ ( स ) ष्टयः ॥ निर्भयभीमव्यायोगः १.२ प्राणाः कवित्वं विद्यानां, लावण्य मव योषिताम् । विद्यवेदिनोऽप्यस्मै, ततो नित्यं कृतस्पृहाः ॥ अकवित्वं परस्तावत् कलङ्कः पाठशालिनाम् । अन्य काव्यैः कवित्वं तु कलङ्कस्यापि चूलिका ॥ नाट्यदर्पणविवृतिप्रारम्भे, ९,११(२२) Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212