Book Title: Mallikamakarandanatakam
Author(s): Ramchandra Mahakavi, Punyavijay
Publisher: L D Indology Ahmedabad
________________
नाट्यविषयकपारिभाषिकशब्दाः
161
-नाट्यदर्पणम् २.१-४
दास-अष्ठि-विटयुक्त क्लेशाढ्यं तच्न सप्तधा । कल्प्येन-फल-वस्तूनामेक-द्वि-त्रि-विधानतः ।। कुलस्त्री गृहवार्तायां, पण्यस्त्री तु विपर्यये । विटे पत्यौ द्वयं तस्माद, एकविंशतिधाऽप्यदः ।। अत्राकलाप्यं पुरा क्लप्तं यद्वाऽनार्षमसद्गुणम् । शेषं नाटकवत् सर्वं कैशिकीपूर्णतां विना ॥
नान्दी (अ) आशीर्वचनसंयुक्ता नित्यं यस्मात् प्रयुज्यते ।
देवद्विजपादीनां तस्मान्नान्दीति संज्ञिता । सूत्रधारः पठेत्तत्र मध्यमं स्वरमाश्रितः । नान्दी पदैदिशभिरष्टभिर्वाऽप्यलङकृताम् ।। नमोऽस्तु सर्वदेवेभ्यो द्विजातिभ्यः शुभं तथा । जितं सोमेन वै राज्ञा शिवं गोब्राह्मणाय च ॥ ब्रह्मोत्तरं तथैवास्तु हता ब्रह्मद्विषस्तथा । प्रशास्त्विमां महाराजः पृथिवीं च ससागराम् ।। राष्ट्र प्रवर्धतां चैव रङ्गस्याशा समृध्यतु । प्रेक्षाकर्तुमहान्धर्मो, भवतु ब्रह्मभाषितम् । काव्यकर्तुर्यशश्चास्तु धर्मश्चापि प्रवर्धताम् । इज्यया चानया नित्यं प्रीयन्तां देवता इति ।। नान्दीपदान्तरेष्वेषु ह्येवमार्येति नित्यशः । वदेतां-सम्यगुक्ताभिर्वाग्भिस्तौ पारिपाश्विकौ ॥ एवं नान्दो विधातव्या यथावल्लक्षणान्विता ।
नाट्यशास्त्रम् (अ) देव-भूग-भा-भर्तृ-मुख्यानां मङ्गलाभिधा ।
नित्या रूपमुखे नान्दी, पदैः षभिरथाष्टभिः ।।
मुख्यग्रहणं सरस्वती-कवि-प्रभृतीनामुपलक्षणार्थम् । मङ्गलाभिधा र भूतगुणोकीर्तनमाशीवचनं वा । नित्या एवंविधरूपैव, ...... अवश्यम्भावाद वा नित्यत्वम. शेषाणां रङ्गाङ्गानां नावश्यंभावः, अहरह: प्रयोज्यत्वाद् वा नित्यत्वम् । यावद्धि रूपकस्याभिनयस्तावदेषा नान्दी प्रयोक्तव्यैव । रूपकस्य नाटकादेर्मुखे प्रारम्भे नान्दी प्रयोगस्थानकथनमेतत् । नान्दोत्वं च मङ्गलाभिधायाः प्रत्यूहापसारणेन समृद्धिजनकत्वात् । पदानि वाक्याङ्गानि । केचित् तु 'पूर्णवाक्यापेक्षयाऽवान्तरवाक्यानि पदानि' इत्याहुः । .... नान्दी स्ववश्यम्भाषित्वान्मङ्गलाभि
च शुभकृत्यारम्भस्येति लक्षिता। अत
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
Page Navigation
1 ... 204 205 206 207 208 209 210 211 212