Book Title: Mallikamakarandanatakam
Author(s): Ramchandra Mahakavi, Punyavijay
Publisher: L D Indology Ahmedabad

Previous | Next

Page 205
________________ दशमं परिशिष्टम् (१०) नाटक विषयक-कतिपय पारिभाषिकशब्दाः (लक्षणसहिताः ) प्रकरणम् : ( अ ) यत्र कविरात्मशक्त्या वस्तु शरं रं च नाकं चैव । औत्पत्तिकं प्रकुरुते प्रकरणमिति तद् बुधैर्ज्ञेयम् ॥ यदनामाहा काव्यं प्रकरोत्यभूतगुणयुक्तम् । उत्पन्नचीजवस्तु प्रकरणमिति तदपि विज्ञेयम् ॥ यन्नाट मयोक्तं वस्तु शरीरं च वृत्तिभेदाश्च । तरप्रकरणेऽपि योज्यं सलक्षणं सर्वसन्धिषु तु ॥ विप्रवणिक्सचिवानां पुरोहितामात्यसार्थवाहानाम् ! चरितं यन्नैकविधं ज्ञेयं तत्प्रकरणं नाम ॥ नोदात्तनायककृत न दिव्यचरितं न राजसंभोगम् । बाह्यजन संप्रयुक्तं तज्ज्ञेयं प्रकरणं तज्ज्ञैः ॥ दासविट श्रेष्ठितं वेशास्त्र्युपचारकारणोपेतम् । मन्दकुलस्त्रीचरितं काव्यं कार्य प्रकरणे तु ॥ सचिव श्रेष्ठब्राह्मण पुरोहितामात्यसार्थवाहानाम् । गृहवार्ता यत्र भवेन्न तत्र वेश्याङ्गना कार्या ॥ यदि वेशयुवतियुक्तं न कुलस्त्रीसङ्गमोऽपि स्यात् । अथ कुलजनप्रयुक्तं न वेशयुवतिर्भवेत्तत्र ॥ यदि वा कारणयुक्त्या वेशकुलस्त्रीकृतोपचारः स्यात् । अविकृतभाषाचारं तत्र तु पाठ्यं प्रयोक्तव्यम् ।। नाट्यशास्त्रम् १८.४५-५३ (आ) अथ प्रकरणे वृत्तमुलाद्यं लोकसंश्रयम् । अमात्यविप्रवणिजामेकं कुर्याच्च नायकम् ॥ धीरप्रशान्त सापायं धर्मकामार्थतत्वरम् । शेषं नाटकवत् संधिप्रवेश रसादिकम् ॥ Jain Education International नायिका तु द्विधा नेतुः कुलस्त्री गणिका तथा । क्वचिदेकैव कुलजा वेश्या क्वापि द्वयं क्वचित् ॥ कुलजाभ्यन्तरा बाह्या वेश्या नातिक्रमोऽनयोः । आभः प्रकरणं त्रेधा संकीर्ण धूर्त संकुचम् ॥ (इ) प्रकरणं वणिगू - विप्र - सचिव - स्त्राम्यसङ्करात् । मन्दगोत्राङ्गनं दिव्यानाश्रितं मध्यचेष्टितम् ॥ दशरूपकम् ३. ३९-४२ For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 203 204 205 206 207 208 209 210 211 212