________________
१
२
३
१
२
३
४
१
२
द्वितीयं परिशिष्टम् : मल्लिकामकरन्दनाटकान्तर्गतानि महाकविश्रीरामचन्द्रस्य
सुभाषितानि
रमणीयता
तं चिय परमत्थेणं रमणिज्जं जत्थ हिययवीसामो । हरिसंति असोयलया जेणं पायप्पहारेहिं ॥
( तद् एव परमार्थेन रमणीयं यत्र हृदयविश्रामः । हृष्यन्ति अशोकलताः येन पादप्रहारैः ॥ ( इति च्छाया )
अन्योन्यं विषयाणां गुरुलघुभावो न कोऽपि यदि नाम । अन्यैव तदपि रेखा गोतीनां कामिनीनां च ॥
यद् यस्य नाभिरुचितं न तत्र तस्य स्पृहा मनोज्ञेऽपि । रमणीयेऽपि सुधांशौ न नाम कामः सरोजिन्याः ॥
नीरसानां पुरो नाट्यं दुर्जनानां पदातिताम् ।
ग्राम्याणां वाग्मितां कुर्वन् हास्यो ब्रह्माऽपि जायते ॥
रसिकार सिकौ
रसपीयूषपूर पूर्णचेतसः सुमेधसः पुरस्कृत्य महाकवयो नाटय प्रबन्धानाबध्नन्ति । न पुनः कलगीतिकामिनीभ्योऽपि विमुखान् महासुभटोत्साहदर्शनेऽपि अरोमाञ्चकञ्चुकान् मातृ-पितृभ्रातृ - सुतविपत्तावप्यनार्द्रमानसान् निर्व्याजसेवकेऽप्यस्वीकृतवात्सल्यान् पाषाणसुहृदो दुर्मेधसः । - पृ. १-२
गीतमपि रक्तकण्ठैरुद्घटितं प्रीतये किल न येषाम् । पाषाणसोदराणां तेषामेषोऽज्ञ्जलिर्बद्धः ॥ ४.१२
प्रेम
तं किंपि कामिणीणं कत्थ वि पिम्मं जणम्मि निव्वडइ । झिज्जति जेण डज्झति जेण जेणं विवज्जति ॥
[ तत् किमपि कामिनीनां कुत्रापि प्रेम जने संजायते । क्षीयन्ते येन दह्यन्ते येन येन विपद्यन्ते ॥ - इति च्छाया ]
- १.४
प्रशमरसिक वैदुष्येण धर्म देशनाविधानैकप्रगल्भवाचो वाचंयमाः शृङ्गार- हास्य- वीर - प्रमुखरसमयानामन र्हाः खलु नाटघप्रबन्धानाम् । [ नहि नहि ] शमस्तत्त्वं मुनीन्द्राणां जानते तु जगन्त्यपि । जन्मैव दिवि देवानां विहारो भुवनेष्वपि ॥
रोगेऽपि विप्रयोगेऽपि शोकेऽपि व्यसनेऽपि च । क्षुतू-पिपासा - स्मरा: प्रायो विमुञ्चन्ति न देहिनम् ॥
Jain Education International
- ३. २
- ४. ११
For Private & Personal Use Only
-५.४
- १.६
-२.१
-२.२
www.jainelibrary.org