Book Title: Mallikamakarandanatakam
Author(s): Ramchandra Mahakavi, Punyavijay
Publisher: L D Indology Ahmedabad

Previous | Next

Page 186
________________ मल्लिकामकरन्दनाटकस्थ-सुभाषितानि ११ सोहग्ग खु मिहुणनिबंधण । [सौभाग्य खलु मिथुननिबन्धनम् । इति च्छाया ॥ -५.१५-१६ (पृ ४९) १५ ददाति रागिणी प्राणानादत्ते द्वेषिणी पुनः । रागो वा यदि वा द्वेषः कोऽपि लोकोत्तरः स्त्रियः ॥ -६.३ सहजग्गिराण सहसोविराण सहहरिस-सोय वंताण । नयणाण व धन्नाण आजम्ममकित्तिम पिम्म ।। [सह-जागरितृणां सह-स्वपितृणां सह हर्ष-शोकवताम् । नयनानामिव धन्यानाम् आजन्म अकृत्रिम प्रेम ॥ इति च्छाया ॥] ६.६ शम्भु-स्वयम्भु-हरयो हरिणेक्षणनां येनाक्रियन्त सततं गृहकुम्भदासाः । वाचामगोचरचरित्रपवित्रिताय तस्मै नमो भगवते कुसुमायुधाय ।। -१ १३ [भर्तृहरिविरचितशृङ्गारशतकाद् (१) उद्धृतः श्लोकोऽयम् ।] स्त्रियः अहो प्रकृत्यैव कुपात्रे निर्बन्धः स्त्रीलोकस्य । ३.१-२, (पृ २३) नाम्नाऽपि यत्र सुदृशां परमः कलङ्कः तस्म नमः शिवपथाय न तस्य चिन्ता । संसारवमनि पुनः सुदृशो विहाय विद्मो न किञ्चिदनघस्य सुखस्य बीजम् ॥ -३.१६ व्यसन सौजन्यवतां कार्कश्य योषितां श्रियां चलता । कार्पण्यं क्षोणिभृतां चत्वारि विधातुरधमानि || -3.१७ प्राणानपि विमुञ्चन्ति निबद्धप्रीतयः स्त्रियः । विद्वांसोऽपि जुगुप्सन्ते तास्तथापि कुतूहलम् ॥ ४.६ ताः सन्ति किं न शतशः शतशोऽपि पुम्भि. रभ्यर्थिताः स्मरपदानि न याः स्मरन्ति । ते सन्ति नैव पुनरेणविलोचनानां नाम्नापि ये प्रतिकल विलय' न यान्ति ॥ -४.. तत् तावदास्तां कामिन्यो न यत् साध्या धनविना । धनैरपि न यत् साध्या तत्र किञ्चिद् विचिन्त्यताम् ॥ - ४.२० प्रायेण नीचरतयो वनिताः.......-५.१६ (तृतीयः पादः) न खलु दुरात्मनां स्त्रीणां कृत्यमकृत्य वा किमप्यस्ति । -६. (पृ. ५५ ५.३-४) एताः कुरङ्गकदृशः प्रमदस्य बीजमाद्यं यथा यदि तथा स्थिरचेतसः स्युः । Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212