Book Title: Makaranda Madhukar Anand Mahendale Festshrift
Author(s): M A Dhaky, Jitendra B Shah
Publisher: Shardaben Chimanbhai Educational Research Centre

Previous | Next

Page 268
________________ પદ્મસાગરગણિકૃત ‘પ્રમાણપ્રકાશ’ स्वोपज्ञवृत्तिसहितः प्रमाणप्रकाशः ॥ अथ प्रमाणप्रकाशवृत्तिः ॥ सरस्वत्याः पदद्वन्द्वं नमस्कृत्य पुनर्गुरोः । श्री प्रमाणप्रकाशस्य वृत्तिं कुर्वे यथामतिम् ॥१॥ इह स्व-पर-परिछित्ति-जनन - समर्थ - प्रमाण - लक्षण - व्युत्पादनाय प्रमाणप्रकाशं चिकीर्षुः प्रकृतशास्त्र-परिसमाप्तये लौकिकांविगीत - शिष्टाचारावबोधित- कर्त्तव्यताकं प्रस्तुत - स्तुतिक श्री शान्तिजिननामाङ्कित-प्रथमकाव्येन मङ्गलमाचरति । स्वस्ति श्रियां यस्य पदं प्रमाणप्रकाशमाविः कुरुते मतं मतम् ॥ उपास्महे तं प्रणिधान - सुस्थितं ज्ञानात्मकं शान्तिजगत्रयेश्वरम् ॥१॥ 257 व्याख्या - इह वक्ष्यमाणरीत्या प्रतिबन्धापायरूप - योग्यतात्मकत्व - स्व-पर-व्यवसायिज्ञान लक्षणाक्रान्त: स्व-पर-परिछित्तिजनक - प्रमाणवेद्यत्वेन भावानां सन्निविष्टत्वाद्भाव व्यवस्थितेरितितास्थात्तव्यपदेश इति त्वाप्रमाणशब्देनाभिधीयन्ते पदार्थास्तेषां यं प्रकाशः स्व- पर परिछित्ति-जनरूपः तं पर-परिछित्ति-कल्पित-जडरूपसन्निकर्षादि-जन्यत्व-तिरस्कारपुरस्सरमाविः कुरुते प्रकटीकरोतीति संटकः । तत्र प्रमाण- प्रकाशेति पदम् । अनन्तरमेव वक्ष्यमाण एकविंशतिकाव्यात्मक - शान्तिस्तवाभिधायित्वेन साभिप्रायं इति प्रथमकाव्यार्थः । अथ स्व-समय-सिद्ध-ज्ञान-प्रामाण्यव्यवस्थापनाय परपरिकल्पित - सन्निकर्षादि-प्रामाण्यं निरस्यन् जगन्नाथ-स्तुति - स्वरूपेण द्वितीयकाव्यमाह । . प्रामाण्य हेमेश्वर - सन्निकर्ष-पोते क्षिपत्येषतवारियौगः । त्वद्दर्शितं न व्यभिचाररन्ध्रं ददर्श जात्यन्ध इवापि पश्यन् ॥२॥ - व्याख्या अहो स्वामिन् योग-नामा त्वदीय-ज्ञान- प्रतिभात-सकलपदार्थ-सार्थ स्वरूपापरथा-वक्तृत्व त्वदुक्त विधि - विपरीताचरणाभ्यां चारित-वद्विट् - सन्निकर्षात्मके पोते वाहने प्रामाण्यरूपं हेमनुवर्ण्यं क्षिपति न्यस्यति । परं परमकारुण्याद्भवेतापदर्शित अन्वय-व्यतिरेकाभ्यां व्यभिचार- रन्ध्रं सन्निकर्षान्तस्थं प्रामाण्य - हेमापगमकरं जात्यन्ध इव नयनाभ्यां पश्यन्नपि न ददर्श न पश्यति । स्मेति शब्दार्था भावार्थस्त्वयम् । यौगा हि किल सन्निकर्षस्य घटादिपदार्थविषयक - प्रमां प्रत्यतिशयित कारणत्वेन प्रामाण्यं स्वीकुरुते । तत्रान्वयव्यतिरेक-व्यभिचाराभ्यां सन्निकर्षस्यप्रमां प्रति कारणत्वमपि नास्तीति कुतस्तस्यातिशयित कारणत्वं तां प्रतीति स्याद्वादिभि र्निगद्यते । तथाहि गगनस्य विभुत्वेन सकलमूर्त्तद्रव्य-संयोगित्व - लक्षण - लक्षित्वेन सत्यपि चक्षुः सन्निकर्षे प्रमानुत्पादादनूय व्यभिचारः विशेषेण ज्ञानेन वैशिष्ट्य प्रमितौ जनयितव्यायां असत्यपि सन्निकर्षे प्रमोत्पादाद्व्यतिरेक व्यभिचारः ॥

Loading...

Page Navigation
1 ... 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284