Book Title: Makaranda Madhukar Anand Mahendale Festshrift
Author(s): M A Dhaky, Jitendra B Shah
Publisher: Shardaben Chimanbhai Educational Research Centre

Previous | Next

Page 279
________________ 268 જિતેન્દ્ર શાહ Makaranda अहो यौग ! यदि सन्निकर्षस्य ज्ञानकारणत्वेनोपचारात् प्रामाण्यमङ्गीकरुषे तहि आत्मादिकमपि अविशेषतो ज्ञानकारणत्वेनोपचाराविशेषात् प्रमाणमस्तु अविशेषं सूत्रं एव दर्शयति तत्कारणत्व इति प्रमाणज्ञान कारणत्वे तदिव सन्निकर्ष इव ज्ञानात्मनो रुपचारस्या विशेषादिति । अथ यौग विकल्पितवत्प्रामाण्यव्यवस्थापक-शंकानिरासमाह प्रमात्रीति । न च घटांगिनाविति घटादिप्रमेयं वस्तु अङ्गी इत्यात्मानौ घटात्मानौ तदिति प्रमाणं नेति न स्यात् कुतः प्रमातृमेयत्व विरोधितत्वात् प्रमातात्मामेयं घटादिवस्तु तयोविरोधितत्वं स्वरूपं यस्येति भावप्रधाननिर्देशात् अयमर्थः । प्रमातृप्रमेययोविरोधि किल प्रमाणं न तौ तयोविरोधिनौ प्रत्येकं स्यातां न हि स एव घटस्तद् घटविरोधीति वक्तुं शक्यते । तस्मात् सन्निकर्ष दृष्टान्तावष्टंभेण प्रमाणविरोधिनौ घटवदात्मनः प्रामाण्य-प्रसंग-प्रतिबन्दी-असिद्धैवेति वाच्यमिति सप्तदश- . काव्यार्थः । अथ प्रमाणत्वस्य प्रमेयत्वविरोधित्वे दूषणमावि:कुर्वन्नाह । यदि प्रमेयत्व-विरोधि-मानता स्यात्तह्ममेयं किल भो प्रमाणम् ॥ वंध्यासुतस्येव तथा च तस्यासत्ता प्रसंगश्च तथात्मनोऽपि ॥१८॥ अहो यौगप्रमाणत्वस्य प्रमेयत्वेन सह विरोधित्वे वक्तव्ये यत्र-यत्र प्रमाणत्वं न तत्र प्रमेयत्वमिति सम्पन्नं तथा च प्रमाणस्याप्रमेयत्वेन वंध्यास्तनयवदसत्वमापद्यते । ततोयमर्थः । यदि प्रमेयत्व विरोधिनी-मानता-प्रमाणत्वं स्यात्तर्हि प्रमाणमप्रमेयमेव स्यात् । ननु तर्हि को दोष इत्याशक्याह वंध्येति तथा चाप्रमेयत्वापत्या तस्य प्रमाणस्य वंध्यास्तनयस्येवासत्त्व प्रसंगः यथा हि वंध्यास्तनयो प्रमेयत्वेनासन्निति निगद्यते । तथा प्रमाणमपि अप्रमेयत्वे नासन्निति निगद्यं स्यादिति भावार्थः । किं च सद्भूत भावस्यापि प्रमाणस्य प्रमाविषयत्वाभावापरपर्याये प्रमेयत्वे प्रमाणज्ञानाभावेन कथं सर्वज्ञस्य सार्वज्यं स्यादिति सर्वज्ञोच्छेदः किं च यथा प्रमाणत्वं प्रमेयत्वेन सह विरोधि तथा प्रमातृत्वमपि प्रमेयत्वेन सह विरोध्येव निगद्यं तथा च तस्यापि तद्वदसत्व प्रसंग इति न प्रमातृत्व-प्रमेयत्व-विरोधित्वेनात्मनि सन्निकर्षवत् ज्ञानकारणत्वाविशेष कल्पनीय प्रामाण्योपचाराविशेषेणोपचारात् प्रामाण्य-प्रसंग-प्रतिबंध्यानोपचारादपि सन्निकर्षस्य प्रामाण्यमिति अष्टादशकाव्यार्थः ॥ अथ प्रमेयत्व प्रमातृत्व विरोधि प्रमाणाज्ञाने महेश्वरस्यापि सार्वज्यं न सिद्धयेदिति दर्शयन्नाह ॥ किं चाप्रमेयत्ववता सद्भूत भावेन कथं तवेश्वरः ॥ सर्वार्थवेदी प्रतिबन्दि-पाणिनैवं त्रोटितो यौग हदिस्थहारः ॥१९॥ ___ सुकरमेवेदं किं च सन्निकर्षस्य प्रामाण्ये वक्तव्ये सर्वज्ञाभावः प्रसज्येत तथाहि चक्षुषः साक्षात्परमाण्वादिभिः सम्बन्धो नास्तीति सर्ववादिसंवादस्तथा च योगिचक्षुषोऽपि

Loading...

Page Navigation
1 ... 277 278 279 280 281 282 283 284