Book Title: Makaranda Madhukar Anand Mahendale Festshrift
Author(s): M A Dhaky, Jitendra B Shah
Publisher: Shardaben Chimanbhai Educational Research Centre

Previous | Next

Page 280
________________ પદ્મસાગરગણિકૃત “પ્રમાણપ્રકાશ' 269 साक्षात्परमाणुभिः सम्बन्धाभावात् कथं तस्य सार्वयं, न च तच्चक्षुषो योगज-धर्मानुग्रहात् तत्संबन्धं स्यादेवेति वाच्यं, कोऽयं योगीन्द्रियाणां योगज-धर्मानुग्रह: स्वविषये प्रवर्त्तमानस्य चक्षुरादेरतिशयाधानं सहकारिमात्रं वा । नाद्यो युक्तिमान् पक्षः परमाण्वादौ प्रवर्तमानस्य चक्षुरादेरसंभवात् अथ योगिनस्तत्र प्रवर्तमानमेवास्तीति चेत्तर्हि स्वयमेव तत्र प्रवर्त्तमानस्य चक्षुषः को योगजधर्मेणानुग्रहः कर्त्तव्यः किं चान्योन्याश्रयदोषोऽपि । सिद्धे हि योगजधर्मानुग्रहे तत्र प्रवृत्तिस्तत्र प्रवृत्तौ च सत्यां स्वविषये प्रवर्त्तमानातिशयापर-पर्याय योगजधर्मानुग्रह: सिद्धयेत् न द्वितीय पक्षोऽपि घटादिस्वविषयातिक्रमेणाह प्रसंगः तथा चैकमेवान्तःकरणं योगजधर्मानुगृहीतं सत् युगपत्परमाण्वाद्यनेकातीन्द्रियार्थ-विषयक-ज्ञानजनकं स्यादिति योगजधर्मानुग्रहस्यासंभवेन चक्षुः सन्निकर्षजन्य परमाणुविषयकज्ञानाभावेन सर्वज्ञाभावप्रसङ्गान्न चक्षुःसन्निकर्षः प्रमाणं स्यात् इति । अथ परपरिकल्पित सन्निकर्षप्रामाण्यं निरस्य स्वमत सिद्धप्रमाणलक्षणं व्यवस्थापयन् प्रमाणरूप-हार-माहात्म्यं वर्णयति ॥ स्वामिन्निजान्यवसायि सम्यग् ज्ञान प्रामाणोत्तम-रत्नहारम् ।। यो न्यस्यति स्वे हृदये स नूनं स्यात् सम्पदामास्पदमंगि-वल्लभः ॥२०॥ अहो स्वामिन् त्वयार्पितं सम्यग् व्यवसायि ज्ञान-लक्षण-प्रमाणरूपहारं यः पुमान् स्वे हृदि न्यस्यति स्थापयति स अङ्गिवल्लभः सन् सम्पदामास्पदं स्यादित्यक्षरार्थो, व्यासार्थस्त्वयं सम्यग स्व-पर व्यवसायिज्ञानं प्रमाणं स्याद्वादिमते । नन्वतिव्याप्त्यव्याप्त्यसंभवादिदोषनिवारकाण्येव पदानि सार्थकानि स्युः प्रकृते चैतावद्भिः पदैः क्ातिव्याप्त्यादि दोषानिवार्यन्ते इति चेत् शृणु प्रकृते हि न दर्शन-प्रतियोगिकान्योन्याभाववत् ज्ञानं विवक्षितं किन्तु ज्ञायन्ते सामान्य विशेषाध्यासिताः पदार्था अनेनेति ज्ञान-दर्शन-साधारणं तथा च ज्ञानमित्युक्ते दर्शनेऽतिव्याप्तिस्तन्निषेधाय व्यवसायीत्युक्तं विशेषेण गौणीभावे द्रव्यत्वादि सामान्यधर्माग्राहकत्वेऽपि मुख्यतया घटत्वादि विशेषधर्मग्रहण पुरस्कारेणावस्यति निश्चिनोतीति व्यवसायि न चैतादृशं दर्शनं संभवति । ये हि घटत्वादयो धर्मा ज्ञाने मुख्यतया भातास्ते हि दर्शने गौणत्वेन भासन्ते ये हि ज्ञाने गौणतया द्रव्यत्वादयो भातास्ते च दर्शने मुखतयावभासन्ते इति दर्शनस्य व्यवसायित्वाभावेन तत्रातिव्याप्ति निषेधकं व्यवसायीति । व्यवसायिज्ञानं चेत्युक्ते संशयज्ञानेति । व्याप्ति संशयस्यापि निश्चायकत्वेन व्यवसायित्वात् इति तनिषेधाय सम्यगिति । सम्यग् व्यवसायिज्ञानं प्रमाणमित्युक्ते ज्ञानाद्वैतवादि कल्पित-ज्ञानेतिव्याप्तिस्तन्निषेधाय परेति अथ सम्यक् पर-व्यवसायि ज्ञानं प्रमाणमित्युक्ते अप्रमाणे यौगकल्पित घटादि ज्ञानेऽतिव्याप्तिरित्युक्तं स्वेति । ननु घटादि ज्ञानस्य मनो ग्राह्यत्वेनार्पितं स्वाकारानुव्यवसाय-वेद्यत्वेन कथमप्रामाण्यमिति चेत् तस्य मनोग्राह्यत्वे घटादिग्रहो न स्यात् तस्य स्व-गृहे एव व्यग्रत्वात् किं च घटज्ञानं मनोजन्यानुव्यवसायग्राह्यं मन्योजन्यानु व्यवसायस्त्व परज्ञानग्राह्यस्तदप्यपरज्ञानग्राह्यमित्यनवस्था-प्रसंग इति सकलज्ञानस्य स्व पर-व्यवसायित्वेन यौग कल्पिते पर व्यवसायिन्यप्रमाणे ज्ञानेतिव्याप्ति-निषेधकं स्वेति पदं

Loading...

Page Navigation
1 ... 278 279 280 281 282 283 284