Book Title: Makaranda Madhukar Anand Mahendale Festshrift
Author(s): M A Dhaky, Jitendra B Shah
Publisher: Shardaben Chimanbhai Educational Research Centre

Previous | Next

Page 269
________________ જિતેન્દ્ર શાહ न च तत्र योग्यताया अभावान्नान्वयव्यतिरेके व्यभिचार इति वाच्यम् । तदवष्टंभस्याप्याग्र (सू)?त्रे एव विकल्पजालैर्निरस्यमाणत्वात् । तदेतदन्वय- व्यतिरेकव्यभिचाररन्ध्रं सन्निकर्षवाहने त्वयोपदर्शितमपि न दृष्टवान् योगः एतेन भगवतो वैरिणामपि हितोपदेशदानेनं परमकारुण्यं ध्वन्यत इति द्वितीय - काव्यार्थः ॥ अथ सन्निकर्षवाहने व्यभिचाररन्ध्रेण को दोषः । प्रामाण्य हेम्न इत्याह ॥ 258 तच्छिद्र तत्स्व-विनाशयायिनः प्रामाण्य हेम्नः खलुरक्षणाय । चिक्षेप धूर्तोऽथ च योग्य-भावा भावैकयुक्त्युत्कट- पट्टिकंसः ॥३॥ Makaranda अथ तत् छिद्रतस्त्वयोपदर्शिता व्यभिचार- रन्ध्रात् विनाशयायिनो विनश्यतः प्रामाण्य हेम्नः क्षरतः प्रामाण्यरूप-स्वर्णस्य खल्विति निश्चितं रक्षणाय त्राणाय धूर्त्तः स्वग्रहग्रहिल : स यौगो.. योग्यभावो योग्यता तत्प्रति योगिको योऽभावस्तदवष्टंभेणैकाद्वैतयुक्तिस्तूर्येत्कट-पट्टिकं तत् छिद्रपिधानाय चिक्षेप तत्र योग्यताभावाच्चक्षुः सन्निकर्षस्य गगने विद्यमानस्यापि तद्विषयक प्रमित्वजनकात्वपि न व्यभिचारित्वमिति तृतीय- काव्यार्थः । अथ यौगेन तद्वाहनान्तर्व्यभिचार छिद्रपिधानाय तत्पदृकेन्यस्तेकि- कृतं भगवंस्त्वावत्याह । लग्नत्वयानैक-विकल्प-मुद्गुरोरेतैरमीषां किल पट्टकं तत् । तथाहि भो का वद योग्यतेति नूनं भवोच्चत् सहकारि-संनिधिः ॥४॥ अहो स्वामिन् एतैरिति अनन्तरमेव वक्ष्यमाणै र्योग्यताविकल्प-मुद्गरैस्तत्पट्टिकं भवता भग्नम् । तथाहीति तान् विकल्पान् सूत्रकार एव स्वयं सूत्रान्तबध्नाति । भो यौंग वद ब्रूहि । तत् छिद्रपिधायिका का योग्यतेति स्याद्वादिना पृष्टे प्राह यौगः सहकारि सन्निधिर्योग्यता । अयमाशयो यथा दण्डादि-सकलकारण-समवधानेप्येकं द्रव्यादिकारणवैगुण्ये किल नोत्पद्यते घटस्तथा व्योम्न्यपि सन्निकर्षादिसकल-कारणसमवधानेप्येक द्रव्यादिसहकारिकारणवैगुण्ये न तद्विषयकप्रमोत्पादनं इति सहकारि - सन्निधिर्योग्यतेति नैयायिकेनोक्ते दूषयति स्याद्वादी चेदिति चतुर्थकाव्यार्थः ॥ अथ तद्दूषणप्रकारक-सहकारिकारण-विकल्पानाह ॥ स्यात्तत्र किं भो सहकारिकारणं, द्रव्यं गुणो वा वद यौग कर्म ॥ द्रव्यं हि चेद्व्याप्यथ को विशेषस्तत् सन्निधिर्यघूटसन्निकर्षात् ॥५॥ अहोश्चिद्यौगत्वं विद्यमानेऽपि सन्निकर्षेण प्रमानुत्पत्तौ सहकारिकारण - संनिध्यात्मकयोग्यता-प्रतियोगिकाभावं कारणं ब्रूषे । तत्र प्रमोत्पत्तौ सहकारि - कारणं किं द्रव्यं गुणः कर्म वा स्यात् द्रव्यमपि व्याप्यव्यापि वेति विकल्प्य दूषयति चेद्व्यापीति । अयं भावः यदि व्यापि द्रव्यं सहकारिकारणं स्यात् । तर्हि दिगादिव्यापिद्रव्य - लक्षण - सहकारिकारणं सहकृतत्वाविशेषेण सन्निकर्षाद् गगनविषयक प्रमोत्पादः केन निवार्यः । यद्यस्मात्कारणात् घटसन्निकर्षवदिति । घट

Loading...

Page Navigation
1 ... 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284