Book Title: Makaranda Madhukar Anand Mahendale Festshrift
Author(s): M A Dhaky, Jitendra B Shah
Publisher: Shardaben Chimanbhai Educational Research Centre
________________
પદ્મસાગરગણિકૃત ‘પ્રમાણપ્રકાશ’
प्रतिभास - विशेष: परोक्षम् । तदपि द्विविधं अनुमानं आगमश्चेति अनुमानमपि द्वेधा गौणं मुख्यं चेति तत्र गौणं त्रिधा स्मरणं प्रत्यभिज्ञानं तर्कश्चेति । मुख्यं तु तदतिरिक्तं धूमादिना वन्याद्यनुमानमिति । तदप्यनुमानं द्वेधा स्वार्थं परार्थञ्चेति । योग्यता विशेषात्तर्कनिर्णीत्यविनाभावेन साध्यविज्ञानं स्वार्थं तत्र साध्यं इष्टमबाधितमसिद्धमिति तत्र वाद्यभिप्रायेच्छया विषयीकृतमिष्टं यथा शब्द: कथञ्चिदनित्यः । स्याद्वादिनो न सर्वथेति अबाधितं तु प्रत्यक्षानुमानादिभि र्यथा शब्दो नित्यः श्रावणत्वादिति प्रत्यक्षः बाधितं न तथेति । असिद्धपदं तु विपर्यस्तादीनां साध्यत्वव्यवस्थापनाय प्रतिवाद्यपेक्षया हि असिद्धं भवति तेन साध्यस्य प्रतिपाद्य स्वरूपत्वेनाविज्ञातार्थ - स्वरूपकत्वात् वादिनस्तु प्रतिपादकत्वेन विज्ञातार्थस्वरूपकत्वेन न तथेति साध्यविज्ञानं च हेतुविज्ञानपूर्वकमेव हेतुश्च साध्याविनाभाव - नियमलक्षणः । केचित्त्रैरूप्यं पाञ्चरूप्यं हेतोर्लक्षणं वदन्ति तन्न हेत्वाभासेऽपि त्रि-पञ्चरूप सम्भवात् । पक्वान्येतानि फलानि एकशाखाप्रभवत्वात् उपयुक्त फलवदित्यादौ हेत्वाभासेऽपि आमफलग्राहि प्रत्यक्षादिनाऽगृहीत- बाधपुरुषापेक्षया त्रिधा, पंचरूपसंभवात् ।
263
पक्षधर्मत्वं हेतावगमकं उदेष्यति शकटं कृत्तिकोदयादित्यत्र शकटलक्षणपक्षे उदेष्यत्व साध्यककृत्तिकोदयलक्षण हेतोरवृत्तित्वेऽपि ॥ अनुमितेर्जायमानत्वेन पक्षधर्मत्वस्यागमकत्वं इत्यादि त्रैरूप्यं च पाञ्चरूप्यं च न हेतोर्लक्षणमिति । किन्तु साध्याविनाभावनियम एव हेतोर्लक्षणं तच्च स्वार्थानुमानेऽपि समानं न तु साध्याविनाभावनियतस्य हेतुत्वं उक्तवता भवता साध्याविनाभावो व्याप्तिरित्युक्तं भवति तच्चानुपपन्नं इदं प्रमेयत्वादभिधेयं इत्यादौ केवलान्वयिनि अविनाभावनिरूपक साध्यभावस्याप्रसिद्धत्वेनाव्याप्तेरिति चेत् न । अभिधेयत्वाभावस्य समवायित्वावच्छेदेन घटे एव प्रसिद्धत्वात् ।
न चैवं प्रमेयत्वलक्षणहेतु सत्वे अभिधेयत्वलक्षणसाध्यासत्वेन घटे एव व्यभिचार इति वाच्यम् । समवायित्वावच्छेदेन प्रमेयत्व लक्षण - साधनस्यापि तत्रासत्वात् साधनत्वावच्छेदकावच्छिन्न-प्रतियोगिकाभाववद्वृत्तित्वं व्यभिचार इति तत्त्वचिन्तामणिसूत्रवचनाच्चेति ।
न च समवायित्वस्य प्रतियोगितया सह व्यधिकरणत्वेन नावच्छेदकत्वमिति वाच्यं सामानाधिकरण्यस्यातन्त्रत्वात् शशे शृंगाभावे वक्तव्ये श्रृंगनिष्ठप्रतियोगितया सह वैयधिकरण्येऽपि शशीयत्वस्याप्य-वच्छेदकत्वात् । उक्तं च तत्त्वचिन्तामणिप्रगल्भ्यां प्रतियोगितावच्छेदकप्रकारेण प्रतियोगिज्ञानमभावप्रत्यक्षे कारणम् नतु प्रतियोगितावच्छेदकस्य प्रतियोगिवृत्तित्वमपि तन्त्रं गौरवादिति न च समवायित्वावच्छिन्न- प्रमेयत्व - लक्षण - प्रतियोगिनोऽप्रसिद्धत्वेन न तदभावो घटे वक्तुं शक्य इति वाच्यम् । आहार्यज्ञान विषयत्व दशायां तस्य प्रसिद्धत्वात् न चानाहार्यज्ञानविषयत्वस्य तन्त्रत्वात् अन्यथोत्कृष्टं नीलतमं इह नास्तीत्यत्र का गतिः तमसस्तवमतेऽभाव रूपत्वेन उत्कृष्टत्वनीलत्वासंभवात् तस्माद्यथा तत्र त्वया आहार्य ज्ञानविषयत्व दशायां उत्कृष्टत्वं नीलत्वं च व्यवस्थाप्यं तथास्माभिरपि समवायित्वावच्छिन्न
Loading... Page Navigation 1 ... 272 273 274 275 276 277 278 279 280 281 282 283 284