Book Title: Makaranda Madhukar Anand Mahendale Festshrift
Author(s): M A Dhaky, Jitendra B Shah
Publisher: Shardaben Chimanbhai Educational Research Centre
________________
પદ્મસાગરગણિકૃત ‘પ્રમાણપ્રકાશ”
261
अहो यौग ! यदि रूपवत्वाभावस्य तत्र प्रतिबन्धकत्वेन सन्निकर्षस्य न व्योम-विषयकप्रमाजनकत्वमिति त्वं ब्रूषे !
तॉस्तु प्रतिबन्धनाशः प्रतिबन्धप्रतियोगिकं प्रध्वंसः तदात्मकं तदन्योन्याभावाप्रतियौगिकं भावेन्द्रियमेव स्वपरप्रमाया इति स्वं ज्ञानं तदन्योऽर्थः परस्तयोः प्रमापरिछित्तिस्तस्या अतिशायिकारणं तदेव प्रमाणम् । आवश्यक-भाव-लाघवादिति आवश्यकत्व विशिष्ट लाघवात् ॥
आवश्यकत्वाल्लाघवाच्चेत्यर्थः । भावार्थस्तावदयं यौगा हि सन्निकर्षेणापि व्योमविषयक प्रमोत्पादे प्रत्यक्ष-प्रमोत्पत्ति-प्रयोजक-प्रतिबन्धकाभावात्मक-रूपवत्त्ववैगुण्यं संगिरन्ते । तत्र स्याद्वादिनस्तावदित्थं ब्रुवते । सन्निकर्षेणापि यदि प्रत्यक्ष-प्रमितौ जनयितव्यायां प्रतिबन्धकाभावापेक्ष्यते तहि प्रतिबन्धकाभावस्यैवोपजीव्यत्वाल्लाघवाच्च कारणत्वे नास्तु प्रामाण्यं किमित्यन्तर्गडुना सन्निकर्षेण प्रतिबन्धाभावस्तु ज्ञानात्मको भावेन्द्रियमेवेति नवमकाव्यार्थः ।
अथ प्रमेयगतगुणस्यप्रत्यक्ष-प्रमितौ सहकारिकारणत्वं निषिध्य प्रमातृगतस्यापि गुणस्य सहकारिकारणत्वं निषेधयति
अदृष्टमुख्यस्य गुणव्रजस्य प्रमातृगस्यापि हि सन्निधानम् ।
अस्तीतिकुंभादिकसन्निकर्षवत् तत्सन्निकर्षो जनयेन्न किं प्रमाम् ॥१०॥ . अहो यौग ! यदि अदृष्टादि गुणाः प्रमातृगतस्तत्र सहकारिकारणं स्वीकुरुषे तर्हि घटसन्निकर्षवत् सान्निध्ये अस्तीति सन्निकर्षेण प्रमातृगतादृष्टादि सान्निध्य सहकृतेन गगनविषयक-प्रमोत्पादः स्यात् प्रमातृगत गुणानां सान्निध्याविशेषात् । इत्थं भावार्थं प्रपञ्च्याक्षरगमनिकां कुरुते । प्रमातृगस्येति आत्माधिकरणकस्यादृष्टमुख्यस्येति अदृष्टादेर्गुणव्रजस्य अपि द्वितीय विकल्पा सामर्थ्य द्योतकः । तत्रेत्यनुवर्तमानमध्याहार्य गगनसन्निकर्षेऽपि सन्निधानं सन्निधिरस्ति इति हेतोः कुंभादिकसन्निकर्षः कथं न प्रमां जनयेदुभयत्राविशेषादिति दशमकाव्यार्थः ।
अथ प्रमेयप्रमातृगतगुणस्य सहकारिकारणत्वं निषेध्य कर्मणोऽपि सहकारिकारणत्वं निषेधयति ।
- कर्मापि किं तत् सहकारिकारणं व्योमोद्भवं वा नयनोद्भवं वा ॥
व्योमोद्भवे तस्य सदाप्यसिद्धिर्नेत्रोद्भवस्तस्य तदेति सा स्यात् ॥११॥ अहो यौग ! कर्मापि किं व्यामोद्भवं व्योम्नि समुत्पन्नं नयनोद्भवं चक्षुः समुत्पन्नं वा सहकारि कारणं स्यात् । इत्थं विकल्पं दूषयति व्यामोद्भव इति व्योमतस्तस्य कर्मणः समुत्पत्तौ
असिद्धिः व्योम्नो नि:क्रियत्वेन तज्जननासम्भवात् । नेत्रोद्भवस्तु नेत्रतस्तदुत्पत्तिरस्तीति तस्य • व्योम्नः प्रमा स्यात् समुत्पद्यतेत्येकादशकाव्यार्थः ।
Loading... Page Navigation 1 ... 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284