Book Title: Makaranda Madhukar Anand Mahendale Festshrift
Author(s): M A Dhaky, Jitendra B Shah
Publisher: Shardaben Chimanbhai Educational Research Centre
________________
જિતેન્દ્ર શાહ
Makaranda
अथ द्रव्यगुणकर्मणां तत्र सहकारिकारणत्वे निषिद्धे सन्निकर्षवाहने व्यभिचारछिद्रपिधानाय यौगैर्यत् योग्यताभावस्रूपं यदृकं न्यस्तं तद्भङ्गे योभूद्गुणो भगवतस्तं दर्शयति ।
262
इत्युद्भटैर्देव विकल्पमुद्गरै- स्तत्पोत- संन्यस्तकुयुक्ति यदृकम् । भक्त्वा त्वया तद्व्यभिचाररन्ध्रमाविः कृतं तत्परमोपकारी ॥१२॥
सुगमं द्वादशं काव्यम् ।
इत्थं यौगमतसंसिद्धप्रमाणलक्षणं निर्लोव्य परमोपकारिणा भगवता यत्प्रमाणलक्षणं न्यगादि तस्य रत्नहारौपम्यं दर्शयन् भगवत्स्तुति स्वरूपेण त्रयोदशं काव्यमाह ॥
स्वामिन्निजान्य-व्यवसायिसम्यग् ज्ञान- प्रमाणोत्तमरत्नहारम् ॥
चिक्षेप यः स्वहृदये त्वयार्पितम् श्लाघ्यः स एव प्रकटं महेमतम् ॥१३॥
अहो स्वामिन्निज शब्देन ज्ञानं अन्य शब्देन घटादिरर्थस्तयोर्व्यवसायि निश्चायकं यत् सम्यग्ज्ञानं तच्च तत्प्रमाणं चेति तद्रूपं रत्नहारं चिक्षेप न्यश्यति स्म यः स्व हृदये पुमान् किं विशिष्टं त्वयार्पितं भगवत्प्रणीतत्वेन श्रद्धाणाचरीकृतं स कीदृश इत्याह स एवेत्यन्ययोगव्यवच्छेदार्थ एवकारः । स एव निखिलसुरासुराणां श्लाघ्यो यतश्चैवं ततः किमित्याह महे पूजयामः एतेन भगवद्वचः श्रद्धावतां हि पूज्यत्वं दर्शितमिति चतुर्दशकाव्यार्थः ।
अथ प्रमाणस्ख्पहारस्य एकत्वेऽपि स्पष्टास्पष्ट - भेदरूप सरिद्वयं दर्शयति ।
एकोऽपि यः स्पष्ट तदन्यभेद युग्मात्मकोयं हृदि पण्डितानां । न्यस्ताश्चकास्तीव मनुष्यदेव द्वयात्मको लोक इतं स्फुरद्गुणः ॥१४॥
एकोऽपि एकसंख्यकोऽपि यो हारः स्पष्ट (त) दन्य भेद-युग्मात्मक इति प्रत्यक्षाप्रत्यक्ष भेदयुग्मेन द्वि-सरिक इत्यर्थः। स च पण्डितानां हृदि न्यस्त श्चकास्ति भ्राजते इतं यथा मनुष्यदेव द्वयात्मको लोकः शोभते । इतः प्राप्तः स्फुरद्वैर्यादि लक्षणो दवरकलक्षणश्च गुणो येनेति संक्षेपार्थः ॥
व्यासार्थस्त्वयं स्याद्वादिमते किल प्रमाणं द्विविधं स्पष्टास्पष्टभेदात् । तत्र स्पष्टं नामांत: कार्मण, मलविश्लेष- विशेष - कारणको विशुद्धिविशेष एव तत् स्पष्टमपि द्विप्रकारकं साव्यवहारिकं मुख्यं चेति । तत्र सांव्यवहारिक मपि द्विप्रकारकं इन्द्रियप्रत्यक्षं अनीन्द्रि (य) प्रत्यक्षं चेति तत्रेन्द्रियान्नयनादेर्यद् घटादिविषयसंवेदनं तदिन्द्रिय प्रत्यक्षं, सुखादेः स्मरणादि ज्ञानस्य यत् स्वरूप वेदनं तदनिन्द्रिय प्रत्यक्षं, अनिन्द्रियं क्षयोपशमविशेषाध्यासितः कश्चिदात्मप्रदेश - विशेष एव मनो वा प्रतिपत्तव्यम् । इतीन्द्रियानिन्द्रियप्रत्यक्षभेदभिन्नं सांव्यवहारिकप्रत्यक्षम् मुख्यं तु प्रत्यक्षम् । अतीन्द्रियमेव तदपि द्विविधं विकलं सकलं च । तत्र विकलं द्वेधा अवधिर्मनः पर्यायश्च । सकलं तु केवलज्ञानमेवेति मुख्यं प्रत्यक्षं ।
Loading... Page Navigation 1 ... 271 272 273 274 275 276 277 278 279 280 281 282 283 284