Book Title: Lalita Sahashranam Stotram Author(s): Batuknath Shastri, Shitalprasad Upadhyay Publisher: Sampurnand Sanskrit Vishva Vidyalay View full book textPage 8
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir (2) पुनः शास्त्रीयविषयस्य । मन्ये, विस्तरपरिहाराय नामार्थमात्रजिज्ञासूनां सौकर्याय च तेनायं प्रकार: स्वीकृतः । एतस्या लेखकों वाराणसेयः श्रीमाधव-श्रीअमृताख्यगुरूणामाज्ञया टीकां लिखितवान् । लेखकोऽयं नागरब्राह्मणजातीय: शिवनाथात्मजः शम्भुनाथनामा कश्चित्साधकः | टीकाद्वयसंवलितं पुस्तकमिदं सर्वेषामुपकारक भवेदिति नूनं विश्वसिमः । श्रीभास्कररायभारतीदीक्षितः ___ अत्र संक्षिप्त एवाऽऽचार्याणां परिचयो लिख्यते । एतेषां पितृचरणा: श्रीगम्भीररायभारतीदीक्षिताः कर्णाटकप्रान्तवर्तिनि बीजापूरनगरे तत्रत्ययवनाधिपस्य सचिवपदे प्रतिष्ठिता आसन् । स राजा भारतीयपुराणादिविषये जिज्ञासुरासीत्, अतस्तदनुरोधेन श्रीगम्भीररायदीक्षितैर्महाभारतस्य पारसीकभाषायामनुवादो विहितः | ततः प्रभृति तद्वंशीयानां 'भारती'त्युपनाम प्रसिद्धिमगात् । श्रीगम्भीररायदीक्षिता विद्वांसो यायजूका ग्रन्थनिर्मातारश्चाभूवन् । एतेषां विष्णुसहस्रनामस्तोत्रे 'पद्यप्रसूनपुष्पाञ्जलि' म काऽपि टीका वर्तते । एतेषां पत्नी कोनमाम्बा नामांऽऽसीत् । दम्पत्योरनयोः पुण्यपरिपाकप्रभावात् श्रीभास्करराया यात्राप्रसङ्गाद् भागानगरे (साम्प्रतिके हैदराबादनगरे) जनिमलभन्त | आबाल्यात्पित्रा प्रयुक्तेन सारस्वतकल्पेन एतेषां बुद्धिः समेधमाना शास्त्रेषु कलासु च परमुत्कर्षमाससाद | सप्तवर्षात्मके वयस्यपि राजसभायामुत्तरप्रदानचातुर्येण वैशिष्ट्यमेतेषां विद्वज्जनप्रशस्तिपात्रतामयासीत् । तथा च 'भास्करविलासे' श्लोकः - सावर्षोऽपि यो युक्त्या सभेश्वरपतेर्मनः । सभेशभक्तो भूपालसभे कस्मिन् जयी न सः ॥ एतदीयशिष्येण नित्योत्सवनिबन्ध'कारेण श्रीजगन्नाथपण्डितेन 'भास्करविलास-काव्ये' सर्वाऽपि जीवनरेखा संक्षिप्य समुल्लिखिता समुपलभ्यते । तत्रैव चान्य: श्लोक: - स बालभावे जनकोपदिष्टसारस्वतोपासनया नयादयः । विद्याः समस्ताः सकला: कलाश्च विनाऽपि यत्नेन वशीचकार ॥ एतेषामुपनयनसंस्कारो वाराणस्यां सम्पन्नः । अध्ययनन्तु 'लोकापल्लीस्थानवासिनामशेषशास्त्रविदुषां श्रीनृसिंहाध्वरिचरणानां सन्निधौ सम्पन्नम् । एतेषां गुरुपुत्रः श्रीस्वामिशास्त्रिनामाऽऽसीत् । अनयोः सहैव विद्याध्ययनं जातमिति श्रूयते । उभाभ्यां सहाध्यायिभ्यां सम्भूय 'पूर्वमीमांसावादकुतूहल'नामा ग्रन्थोऽपि रचितः, यस्य हस्तलेख: सरस्वतीभवने वर्तते । अन्येभ्योऽपि विद्वद्भ्यः श्रीभास्कररायैरध्ययनं For Private and Personal Use OnlyPage Navigation
1 ... 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 ... 392