Book Title: Lalita Sahashranam Stotram
Author(s): Batuknath Shastri, Shitalprasad Upadhyay
Publisher: Sampurnand Sanskrit Vishva Vidyalay
View full book text ________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
(5)
इत्यादिभिर्मातृकाया मन्त्रस्य वा सूर्यात्मकत्वे न सन्देहः । एवं भाष्यस्य नामापि सार्थकीभवति । आचार्यैरुपोद्घातश्लोकेष्विदमुच्यते यदष्टाभिर्वांमयाधीशाभिः प्रणीते दिव्यनाम्नां सहस्रे ब्रह्मादिविस्मयाधायके मादृशस्य का नाम गतिः ? तथापि दहराकाशवर्तिन्या श्रीमात्रेव प्रेरिता तास्वेका वाग्देवी गुरुचरणनिर्णेजनपवित्रिते मदीये जिह्वाग्रे टति, सैव व्याख्याक्रमं निर्वक्ष्यतीति । इदञ्च भाष्यं श्रुतिस्मृतिन्यायपुराणसूत्रकोशागमश्रीगुरुसम्प्रदायानननुरुध्यैव लिखितमित्यन्ते निरूपितम् । अस्य रचना आश्विनशुक्लनवम्यां काश्यां परिपूर्तिमगात् ।
आचार्याणां व्याख्यायां सर्वत्र प्रमाणसाक्ष्यं तत्तच्छास्त्रप्रमेयविचारः पदे पदे सन्निधत्ते मीमांसान्यायव्याकरणकोशादिभिरर्थो निर्णीयते । एतेषां सहजाऽपि भाषा निगूढपरिभाषास्वरूपं धारयति । दिङ्मात्रेण यथा
'इतरवैलक्षण्यं प्रकर्ष:' । 'सर्वोत्तमत्वमुत्कर्ष:' । 'इह हि शास्त्रं चतुर्धा - पदशास्त्रम्, पदार्थशास्त्रम्, वाक्यशास्त्रम्, वाक्यार्थशास्त्रञ्चेति । अन्येषामत्रैवान्तर्भावः' । 'अस्ति विमर्शरूपा स्वसंविद्विषयान्तराऽनवभासिना' इत्यादि ।
नामसु लिङ्गविचारोऽप्यौपचारिकः, ब्रह्मणि लिङ्गाभावात्- 'न स्त्री न षण्ढो न पुमान् न जन्तुः' इति भागवतात् । तथापि विशेषणविशेष्यभावे लिङ्गसाम्यस्य कल्पनीयत्वात्तथैव व्याख्यानं क्रियत इत्युक्तम् । क्वचित्पुनरुक्ततयाऽऽभासमानेषु नामसु 'अर्थभेदेन शब्दभेदः' इति नियममनुसृत्य, अथवा 'शब्दभेदेनाप्यर्थभेदः' इत्युक्तम् । विष्णुसहस्रनामव्याख्यासु शङ्करभगवत्पादैरप्येषा रीतिरङ्गीकृता । क्वचिदेकस्यापि नाम्नो बहु- विधा अर्थाः प्रस्तूयन्ते । तत्र सर्वेषां प्रसङ्गानुसारित्वं प्रमाणप्रतिपन्नत्वमाचार्यैरुपपाद्यते । एवमस्य भाष्यस्य वैशिष्ट्यं वैचित्र्यञ्च विदुषामपि विस्मयावहमस्ति ।
'मिथ्या जगदधिष्ठाना' इत्यत्र काचन दार्शनिकी दृष्टि: मिथ्यारूपस्य जगतोऽधिष्ठानं भानाधिकरणं रजतस्येव शुक्तिः । वस्तुतस्तु जगतो ब्रह्मपरिणामकत्वं स्वीकुर्वतां तान्त्रिकाणां मते जगतः सत्यत्वमेव मृद्घटयोरिव ब्रह्मजगतोरत्यन्ताभेदेन ब्रह्मणः सत्यत्वेन जगतोऽपि सत्यत्वाऽवश्यम्भावात् । भेदमात्रस्य मिथ्यात्वस्वी - कारेणाद्वैतश्रुतीनामखिलानां निर्वाहः । ततश्च मिथ्याभूतं जगतोऽधिष्ठानं भेदघटित - सम्बन्धेनावस्थितिर्यस्यामिति विग्रहात् स्त्रीलिङ्गतोपपत्तिः ।
सोऽयं परिणामवादः सेतुबन्धटीकायां वरिवस्यारहस्ये च वितत्य व्याख्यात आचार्यपादैः । एतन्मते व्याससूत्रम् - 'आत्मकृतेः परिणामात्' इति । भगवत्पादानां सौन्दर्यलहर्यामुक्तिः –' त्वयि परिणतायां न हि परम्' इति चानुकूलैव । क्वचिदुत्प्रेक्षितार्थविवरणेऽपि शास्त्रानुकूल्यं यथा भक्तिमत्कल्पलतिका' इत्यत्र भक्तिमतां जनानां कल्पलतिकेव अभिमतार्थदातृत्वात् । अथवा ईषदसमाप्तौ कल्पप्प्रत्ययेनापूर्णभक्ताः भक्तिमत्कल्पाः । तेषां लतेव विस्तारकारिणी कस्तूरिकेवाऽऽमोदयित्री वा । 'ज्योति
For Private and Personal Use Only
ܐܩ
Loading... Page Navigation 1 ... 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 ... 392