Book Title: Lalita Sahashranam Stotram
Author(s): Batuknath Shastri, Shitalprasad Upadhyay
Publisher: Sampurnand Sanskrit Vishva Vidyalay

View full book text
Previous | Next

Page 17
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir सौभाग्यभास्कर - बालातपासहितैनाथ राजसंख्याकानि षोडश 'कामेशबद्धमाङ्गल्य' इत्यारभ्य कामकेलितरङ्गिता इत्यन्तानि विद्धाङ्गीं विइत्यक्षरारब्धान्येकोनचत्वारिंशत् 'विशुक्रप्राणहरणा' इत्यारभ्य 'विरागिणी' इत्यन्तानि । त्रिगुणैर्देवैर्निनुतामेकान्तां बिन्दुगां महारम्भाम् ॥ १ ॥ त्रिगुणैर्गुणनिधिर्गुणप्रिया गुणातीतेति त्रीणि । निनुतां निकारारब्धानि षष्टिः 'निजारुणा' इत्यारभ्य 'निरालम्बा' अन्तानि । एकान्तां ताम्बूलपूरितमुखी त्येकं नाम । बिन्दुगां बिन्दुमण्डलवासिनी, बैन्दवासना, बिन्दुतर्पणसन्तुष्टेति त्रीणि । महारम्भां महापदारब्धानि द्विचत्वारिंशत् महालावण्ये' त्यारभ्य 'महेश्यन्तानि ॥ १ ॥ ललितानामसहस्रे छलार्णसूत्रानुयायिन्यः । परिभाषा भाष्यन्ते संक्षेपात्कौलिकप्रमोदाय ॥ २ ॥ छलाक्षरनामसूत्रेभ्यो नामविभागादेर्विलम्बेन क्लिष्टतया ज्ञायमानत्वात्तत्रत्या एव परिभाषाः सुलभोपायेन सुबोधा इति विद्योपासकानां तोषाय कथ्यन्त इत्यर्थः । छलाक्षरसूत्राणां विलम्बितार्थबोधजनकत्वं तत्र तत्र प्रकटीकरिष्यामः ॥ २ ॥ पञ्चाशदेक आदौ नामसु सार्धद्वयशीतिशतम् । षडशीतिः सार्धान्ते सर्वे विंशतिशतत्रयं श्लोकाः ॥ ३ ॥ आदौ प्रथमभागे पञ्चाशदेकश्च । एकपञ्चाशच्छ्लोका इत्यर्थः । वक्ष्यमाणस्य सहस्रभोजनप्रयोगस्य बहुदिन क्रियमाणत्वपक्षे प्रथमदिन एकपञ्चाशच्छ्लोकपाठः । ध्यानश्लोकस्तु प्रत्यहं पठनीय इति वैषम्यध्वननाय विभज्य कथनम् । नामसु विषये यशीत्युत्तरं शतमर्ध लोकश्च अन्ते फलश्रुत्यादिप्रकरणे । संहत्य तु त्रीणि शतानि विंशतिश्च श्लोका इत्यर्थः ॥ ३ ॥ दशभूः सार्धनृपाला अध्युष्टं सार्धनवषडध्युष्टम् । मुनिसूतहयाम्बाश्वाम्बाश्वोक्तिर्ध्यानमेकेन ॥ ४ ॥ अथ प्रथमभागं विभज्य दर्शयति-भूः एकः । नृपालाः षोडश अध्युष्टं सार्धत्रयम् । मुनिरगस्त्यः । हय़ाश्वपदानि हयग्रीवपराणि । दशश्लोका अगस्त्योक्तिरूपा इत्यादिरीत्या यथाक्रममन्वयः । अगस्त्याख्यो हि महामुनिः श्रीविद्योपासकाग्रेसरस्तत्रभगवतो हयग्रीवस्य देशिकेन्द्रस्य मुखाद्ब्रह्माण्डपुराणीयैर्मन्त्रन्यासपूजापुरश्चरणहोमरहस्यस्तोत्राख्यैः सप्तभिः खण्डैः श्रीमातुः प्रादुर्भावादिरहस्यजातमाकर्ण्यतोऽपि परमरहस्यं नामसहस्रमस्तीति तपोबलादेव निश्चित्य तद्भक्तायापि मह्यं किमिति गुरुभिर्न दत्तमित्यनुपदेशनिमित्तांशे संदिहानः पृच्छतीत्याह भगवान् सूतः ॥ ४ ॥ For Private and Personal Use Only

Loading...

Page Navigation
1 ... 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 ... 392