________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
सौभाग्यभास्कर - बालातपासहितैनाथ
राजसंख्याकानि षोडश 'कामेशबद्धमाङ्गल्य' इत्यारभ्य कामकेलितरङ्गिता इत्यन्तानि विद्धाङ्गीं विइत्यक्षरारब्धान्येकोनचत्वारिंशत् 'विशुक्रप्राणहरणा' इत्यारभ्य 'विरागिणी' इत्यन्तानि ।
त्रिगुणैर्देवैर्निनुतामेकान्तां बिन्दुगां महारम्भाम् ॥ १ ॥
त्रिगुणैर्गुणनिधिर्गुणप्रिया गुणातीतेति त्रीणि । निनुतां निकारारब्धानि षष्टिः 'निजारुणा' इत्यारभ्य 'निरालम्बा' अन्तानि । एकान्तां ताम्बूलपूरितमुखी त्येकं नाम । बिन्दुगां बिन्दुमण्डलवासिनी, बैन्दवासना, बिन्दुतर्पणसन्तुष्टेति त्रीणि । महारम्भां महापदारब्धानि द्विचत्वारिंशत् महालावण्ये' त्यारभ्य 'महेश्यन्तानि ॥ १ ॥
ललितानामसहस्रे छलार्णसूत्रानुयायिन्यः । परिभाषा भाष्यन्ते संक्षेपात्कौलिकप्रमोदाय ॥ २ ॥
छलाक्षरनामसूत्रेभ्यो नामविभागादेर्विलम्बेन क्लिष्टतया ज्ञायमानत्वात्तत्रत्या एव परिभाषाः सुलभोपायेन सुबोधा इति विद्योपासकानां तोषाय कथ्यन्त इत्यर्थः । छलाक्षरसूत्राणां विलम्बितार्थबोधजनकत्वं तत्र तत्र प्रकटीकरिष्यामः ॥ २ ॥
पञ्चाशदेक आदौ नामसु सार्धद्वयशीतिशतम् । षडशीतिः सार्धान्ते सर्वे विंशतिशतत्रयं श्लोकाः ॥ ३ ॥
आदौ प्रथमभागे पञ्चाशदेकश्च । एकपञ्चाशच्छ्लोका इत्यर्थः । वक्ष्यमाणस्य सहस्रभोजनप्रयोगस्य बहुदिन क्रियमाणत्वपक्षे प्रथमदिन एकपञ्चाशच्छ्लोकपाठः । ध्यानश्लोकस्तु प्रत्यहं पठनीय इति वैषम्यध्वननाय विभज्य कथनम् । नामसु विषये यशीत्युत्तरं शतमर्ध लोकश्च अन्ते फलश्रुत्यादिप्रकरणे । संहत्य तु त्रीणि शतानि विंशतिश्च श्लोका इत्यर्थः ॥ ३ ॥
दशभूः सार्धनृपाला अध्युष्टं सार्धनवषडध्युष्टम् । मुनिसूतहयाम्बाश्वाम्बाश्वोक्तिर्ध्यानमेकेन ॥ ४ ॥
अथ प्रथमभागं विभज्य दर्शयति-भूः एकः । नृपालाः षोडश अध्युष्टं सार्धत्रयम् । मुनिरगस्त्यः । हय़ाश्वपदानि हयग्रीवपराणि । दशश्लोका अगस्त्योक्तिरूपा इत्यादिरीत्या यथाक्रममन्वयः । अगस्त्याख्यो हि महामुनिः श्रीविद्योपासकाग्रेसरस्तत्रभगवतो हयग्रीवस्य देशिकेन्द्रस्य मुखाद्ब्रह्माण्डपुराणीयैर्मन्त्रन्यासपूजापुरश्चरणहोमरहस्यस्तोत्राख्यैः सप्तभिः खण्डैः श्रीमातुः प्रादुर्भावादिरहस्यजातमाकर्ण्यतोऽपि परमरहस्यं नामसहस्रमस्तीति तपोबलादेव निश्चित्य तद्भक्तायापि मह्यं किमिति गुरुभिर्न दत्तमित्यनुपदेशनिमित्तांशे संदिहानः पृच्छतीत्याह भगवान् सूतः ॥ ४ ॥
For Private and Personal Use Only