Book Title: Lalita Sahashranam Stotram
Author(s): Batuknath Shastri, Shitalprasad Upadhyay
Publisher: Sampurnand Sanskrit Vishva Vidyalay

View full book text
Previous | Next

Page 9
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org (3) कृतमिति ज्ञायते । तत्र नव्यन्यायशास्त्राध्ययनं गङ्गाधरवाजपेयिसकाशाद् रुक्मण्णापण्डिताच्च छन्दोऽलङ्कारज्ञानं सविशेषमधिगतम् । श्रीशङ्करभगवत्पादानां कार्येषु किमप्यवशिष्टमासीत्, यथा- शिवोपासनाप्रसारः, शक्त्युपासनाप्रसारश्च । एतदुभयं तदीयसम्प्रदायानुगामिभिः क्रमशः अप्पय्यदीक्षितैस्तथा श्रीभास्कररायदीक्षितैरनुष्ठितमिति परम्परायां प्रसिद्धिः । तत्र श्रीविद्यासम्प्रदायमवलम्ब्य श्रीभास्कररायैः सौभाग्यभास्करभाष्यम्, वामकेश्वरतन्त्रस्य सेतु - बन्धटीका, वरिवस्यारहस्यम्, कौल - त्रिपुरा- भावनोपनिषदां भाष्याणि एवमादयः प्रबन्धाः, तृचभास्करप्रभृतयोऽपि निरमायिषत । तेषां ग्रन्थसूची हिन्दीभाषामये प्रबन्धे समुल्लिखिता वर्तते । अन्येऽपि बहवो ग्रन्थाः सन्तीति तत्र तत्र सन्दर्भादवगम्यते । विविधसूचीपत्रेभ्यः षट्सप्ततिग्रन्थानां तत्प्रणीतानां नामानि ज्ञायन्ते | T 'विद्याऽष्टादशकस्य मर्मविदभूद्यः श्रीनृसिंहाद्गुरो:' इति तेषां भणितिः सर्वथा सत्या समीचीना चानुभूयते ग्रन्थपरिशीलनेन । प्रसङ्गवशात् सर्वा अपि विद्या: कलाश्च स्थले स्थले परामृष्टा विवृताश्च आचार्यचरणैः । श्रीनृसिंहाध्वरिगुरुभिः प्रेषिता एते सुरतनगरमुपेत्य स्वगुणातिशयेन प्रसन्नेभ्यः परमोपासकेभ्यः श्रीशिवदत्तशुक्लचरणेभ्यः पूर्णाभिषेकसंस्कारमवापुः । स्थले स्थले शास्त्रार्थः, राजसम्मानः, सर्वत्र विजयश्रीश्च सुलभाऽऽसीदेतेषामित्यत्र पण्डितजगन्नाथस्य पद्यं प्रमाणम् 'यस्याऽदृष्टो नास्ति भूमण्डलांशी यस्याsदासो विद्यते न क्षितीशः । यस्याऽज्ञातं नैव शास्त्रं किमन्यै Acharya Shri Kailassagarsuri Gyanmandir fferssकारः सा पराशक्तिरेव ॥ शास्त्रार्थे माध्वयतेर्वल्लभाचार्यस्य च विजयः समुल्लिखितो जगन्नाथेन । एतेषां तपःसिद्धिरप्यनन्यसाधारणी श्रूयते तृचभास्कर ग्रन्थसन्दर्भे । तपःप्रभावादेभिः कावेर्याः प्रवाहगतिरपि परिवर्तितेति श्रूयते । एवमादीनि लोकोत्तराणि कार्याणि कुर्वाणा अपि सर्वथा सत्सम्प्रदायरक्षायां जागरूकाः, वैदिकसनातनधर्मसंवर्द्धने तत्पराश्च लोकानुग्रहं चक्रुः । एतेषां जीवनावधिकालः प्रायेण १६७५ ख्रीस्ताब्दादारभ्य १७६८ पर्यन्त आसीदिति प्रमाणयन्ति विद्वांसः । कालनिर्णयविषये ग्रन्थरचनापुष्पिकाः साहाय्य - माचरन्ति । तथा हि सौभाग्यभास्करस्य लेखनकाल: १७२८ ईशवीयाब्दः, सेतुबन्धटीकायाः १७३३ ई., सप्तशतीटीकाया गुप्तवत्याश्च निर्मितिकालः १७४१ ई. इत्यादिसीमावधिभिः कालनिर्णयः सम्भवति । For Private and Personal Use Only

Loading...

Page Navigation
1 ... 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 ... 392