SearchBrowseAboutContactDonate
Page Preview
Page 8
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir (2) पुनः शास्त्रीयविषयस्य । मन्ये, विस्तरपरिहाराय नामार्थमात्रजिज्ञासूनां सौकर्याय च तेनायं प्रकार: स्वीकृतः । एतस्या लेखकों वाराणसेयः श्रीमाधव-श्रीअमृताख्यगुरूणामाज्ञया टीकां लिखितवान् । लेखकोऽयं नागरब्राह्मणजातीय: शिवनाथात्मजः शम्भुनाथनामा कश्चित्साधकः | टीकाद्वयसंवलितं पुस्तकमिदं सर्वेषामुपकारक भवेदिति नूनं विश्वसिमः । श्रीभास्कररायभारतीदीक्षितः ___ अत्र संक्षिप्त एवाऽऽचार्याणां परिचयो लिख्यते । एतेषां पितृचरणा: श्रीगम्भीररायभारतीदीक्षिताः कर्णाटकप्रान्तवर्तिनि बीजापूरनगरे तत्रत्ययवनाधिपस्य सचिवपदे प्रतिष्ठिता आसन् । स राजा भारतीयपुराणादिविषये जिज्ञासुरासीत्, अतस्तदनुरोधेन श्रीगम्भीररायदीक्षितैर्महाभारतस्य पारसीकभाषायामनुवादो विहितः | ततः प्रभृति तद्वंशीयानां 'भारती'त्युपनाम प्रसिद्धिमगात् । श्रीगम्भीररायदीक्षिता विद्वांसो यायजूका ग्रन्थनिर्मातारश्चाभूवन् । एतेषां विष्णुसहस्रनामस्तोत्रे 'पद्यप्रसूनपुष्पाञ्जलि' म काऽपि टीका वर्तते । एतेषां पत्नी कोनमाम्बा नामांऽऽसीत् । दम्पत्योरनयोः पुण्यपरिपाकप्रभावात् श्रीभास्करराया यात्राप्रसङ्गाद् भागानगरे (साम्प्रतिके हैदराबादनगरे) जनिमलभन्त | आबाल्यात्पित्रा प्रयुक्तेन सारस्वतकल्पेन एतेषां बुद्धिः समेधमाना शास्त्रेषु कलासु च परमुत्कर्षमाससाद | सप्तवर्षात्मके वयस्यपि राजसभायामुत्तरप्रदानचातुर्येण वैशिष्ट्यमेतेषां विद्वज्जनप्रशस्तिपात्रतामयासीत् । तथा च 'भास्करविलासे' श्लोकः - सावर्षोऽपि यो युक्त्या सभेश्वरपतेर्मनः । सभेशभक्तो भूपालसभे कस्मिन् जयी न सः ॥ एतदीयशिष्येण नित्योत्सवनिबन्ध'कारेण श्रीजगन्नाथपण्डितेन 'भास्करविलास-काव्ये' सर्वाऽपि जीवनरेखा संक्षिप्य समुल्लिखिता समुपलभ्यते । तत्रैव चान्य: श्लोक: - स बालभावे जनकोपदिष्टसारस्वतोपासनया नयादयः । विद्याः समस्ताः सकला: कलाश्च विनाऽपि यत्नेन वशीचकार ॥ एतेषामुपनयनसंस्कारो वाराणस्यां सम्पन्नः । अध्ययनन्तु 'लोकापल्लीस्थानवासिनामशेषशास्त्रविदुषां श्रीनृसिंहाध्वरिचरणानां सन्निधौ सम्पन्नम् । एतेषां गुरुपुत्रः श्रीस्वामिशास्त्रिनामाऽऽसीत् । अनयोः सहैव विद्याध्ययनं जातमिति श्रूयते । उभाभ्यां सहाध्यायिभ्यां सम्भूय 'पूर्वमीमांसावादकुतूहल'नामा ग्रन्थोऽपि रचितः, यस्य हस्तलेख: सरस्वतीभवने वर्तते । अन्येभ्योऽपि विद्वद्भ्यः श्रीभास्कररायैरध्ययनं For Private and Personal Use Only
SR No.020688
Book TitleLalita Sahashranam Stotram
Original Sutra AuthorN/A
AuthorBatuknath Shastri, Shitalprasad Upadhyay
PublisherSampurnand Sanskrit Vishva Vidyalay
Publication Year1994
Total Pages392
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy