SearchBrowseAboutContactDonate
Page Preview
Page 7
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org ॥ श्रीगुरुगणेशः पुरोवाक् Acharya Shri Kailassagarsuri Gyanmandir श्रीसाम्बशिवगुर्वाद्यां शङ्कराचार्यमध्यगाम् । अस्मदाचार्यपर्यन्तां वन्दे गुरुपरम्पराम् ॥ स्वोपासनासिद्धिरहस्यसारसत्सम्प्रदायप्रथनाय नूनम् । आविर्भवन्ती गुरुभास्कराख्या पायादपायात्परदेवता माम् ॥ अथेदमुपक्रम्यते प्रातःस्मरणीयानां श्रीभास्कररायभारतीदीक्षितानां ललितासहस्रनामस्तोत्रमधिकृत्य प्रणीतं सौभाग्यभास्कराख्यं भाष्यं नवमुद्रितं विदुषां जिज्ञासूनाञ्च करेष्वर्पयितुम् । इतः प्राक् मुम्बईनगरस्थित निर्णयसागरमुद्रणालयतो भाष्यमिदं चतुर्वारं मुद्रितम् । प्रथमं संस्करण १९१४ ख्रीस्ताब्दे प्रकाशितमासीत् । प्रथमभाष्यभूमिकायां यथाश्रुत वृत्तान्तः किञ्चिदसम्बद्ध इवाऽऽसीत्, ततश्चतुर्थसंस्करणस्य भूमिकायां श्रीभास्कररायसम्प्रदायाभिज्ञैः परिशोधितो वृत्तान्त एव सन्निवेशितः । प्रथमसंस्करणभूमिकायां वाममार्गसम्बद्धमितिवृत्तं सर्वथाऽसम्बद्धमश्रद्धेयञ्चाऽऽसीत् । न हि श्रीभास्कररायचरणानां शाङ्करसम्प्रदायसमुन्नायकानां विषये तादृशं वृत्तं कदापि सङ्गच्छते । मुद्रितमपीदं भाष्यं कालवशादापणेषु प्रायेण दुर्लभतामापन्नमिति साम्प्रतिकेन प्रयासेन जिज्ञासुजनपरितोषः सम्पद्येत । अस्मिन् संस्करणे निर्णयसागर - मुद्रितपाठं सरस्वतीभवनस्थहस्तलिखितपुस्तकद्वयस्य (मातृका सं. २०४७०, ८५९४८) पाठमपि परामृश्य ग्रन्थसन्दर्भो निवेशितः । श्रीभास्कररायभारतीदीक्षितानामैतिह्यविषये शास्त्रीयग्रन्थरचनाऽवदाने च यावान् विस्तरः स यथामति यथोपलब्धि च मया श्रीभास्करराय भारती दीक्षित-व्यक्तित्व एवं कृतित्व' इत्यभिधाने हिन्दी भाषामये प्रबन्धे संगृहीतो विवेचितश्च । स च प्रबन्धः सम्पूर्णानन्दसंस्कृतविश्वविद्यालयतः १९९४ ख्रीस्ताब्दे प्राकाश्यमलभत । अस्मिन् प्रबन्धे गायकवाड - ओरियण्टल-सीरीज-बडोदरातः प्रकाशिते तृचभास्कराख्ये ग्रन्थे च सर्वोऽपि जीवनवृत्तान्तः सप्रमाणं सन्निवेशित इति जिज्ञासुभिस्तत एवाऽऽकलयितुं शक्यते । एतस्मिन् भाष्यप्रकाशने प्रारब्धे वाराणसीस्थसरस्वतीभवनतः (मातृका सं. १९४८१, ८५९५३) 'बालातपा' नाम समुपलब्धा स्वल्पा काचन टीकाऽपि भाष्यस्याधस्तात्सन्निवेशिता । अस्यां टीकायां नाम्नामर्थमात्रस्य व्याख्या विद्यते, न For Private and Personal Use Only
SR No.020688
Book TitleLalita Sahashranam Stotram
Original Sutra AuthorN/A
AuthorBatuknath Shastri, Shitalprasad Upadhyay
PublisherSampurnand Sanskrit Vishva Vidyalay
Publication Year1994
Total Pages392
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy