Book Title: Laghuchandrika
Author(s): Bramhanand Sarasvati, Harihar Shastri
Publisher: Vidya Mudrakshar Shala

View full book text
Previous | Next

Page 5
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir श्री . विद्याशङ्करो) विजयते श्रीमत्परमहंसपरिव्राजकाचार्यवर्यपदवाक्यप्रमाणपारावारपारीण यमनियमासनप्राणायामप्रत्याहारध्यानधारणासमाध्यष्टाङ्गयोगानुष्ठाननिष्ठतपश्चक्रवर्त्यनाद्यविच्छिन्नगुरुपरम्पराप्राप्तषड्दर्शनस्थापनाचार्यव्याख्यानसिंहासनाधीश्वरसकल निगमागमसारहद यसाङ्ख्यत्रयप्रतिपादकवैदिकमार्गप्रवर्तकसर्वतन्त्रस्वतन्त्रादिराज धानीविद्यानगरमहाराजधानीकर्नाटकसिंहासनप्रतिष्ठापनाचार्यश्रीमद्राजाधिराजगुरुभूमण्डलाचार्यऋश्यशृङ्गपुरवराधीश्वरतुङ्गभद्रातीरवासश्रीमद्विद्याशङ्करपादपद्माराधकश्रीमन्नृसिंहभारती खामिगुरुकरकमलसञ्जातशृङ्गेरीश्रीसच्चिदानन्दशिवामिनवनसि हमारतीखामिभिः । अत्यन्तप्रियशिष्यकुम्भघोणनगरवासिश्रीविद्यानिलयमुद्राक्षरशालाम्यानेजरइत्युपपदधारिसाम्बशिवशास्त्रिविषये श्रीनारायणस्मरणपूर्वकविरचिताशिषस्समुल्लसन्तुतराम आसेतुहिमाचलप्रसिद्धात्रभवच्छीमच्छङ्करभगवत्पादपूज्यपीठविषयिणी भक्तिरनवधि कश्रेयोनिदानमिति सर्वजनविदितमेतत्साम्प्रतम् ॥ इह खलु कुपितफणिफणामण्डलच्छायसच्छायेषु स्वक्चन्दनादिषु विषयेषु मोमुह्यमानतया जन्मजरानिधनाद्युपप्लवबहुले संसारचक्रे बंभ्रम्यमाणान् सकलानपि जनानुपलभ्य तदनुजिघृक्षया श्रीमच्छङ्करदेशिकचरणैर्येयमद्वैतविद्या ब्रह्मसूत्रमाण्यादिमुखेन प्रतिष्ठापिता शिष्यप्रशिष्यादिमुखेन । सर्वतः प्रचारिता च तदनु कालवशात् जरीजम्भमाणैर्नान्तध्वान्ताय. नेकमतप्रभेदैरसम्भावनाविपरीतभावनादिदोषकलुषिततया विरलप्रचारा समभवदिति हेतोरसम्भावनादिदोषविधूननाय श्रीमद्विद्यारण्यमधुसूदनसरस्वतीब्रह्मानन्दसरखत्यादिभिर्विरचितैरनेकैः प्रबन्धैः सर्वतोव्याप्तवासीत् सेयमिदानी प्रबन्धानां बाहुल्येन लिखितुं लेखयितुं च अशक्यतया कथञ्चिल्लेखनेऽपि लेखकप्रमादजनिताशुद्धिसंक्रान्तिबहुलतया च शोधितानामपि तेषां सर्वत्र दौर्लभ्येन च विरलप्रचारा वरीवर्तीत्यस्यां दशायामद्वैतमहानिबन्धमालात्मिका विद्वद्भिस्सम्परिशोध्य मुद्रापयितुमारब्धा एषा अद्वैतमञ्जरी शिरसि निदधाना श्रीमच्छङ्करदेशिकचरणानामाज्ञामाकलयन्ती अद्वैतविद्यायास्स्वात्मनश्च सर्वत्र सुप्रचारं सफलयन्ती च प्रबन्धकृतां मुद्रापयितश्च प्रयासं अशेषानपि लोकानुपकुर्यादिति श्रीमच्छारदाचन्द्रमालीश्वरादिदेवताः प्रार्थयामहे. वि०आश्विन शुक्लअष्टम्यां सौम्यवासरे कडत्तूमे. For Private and Personal Use Only

Loading...

Page Navigation
1 ... 3 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 ... 336