Book Title: Laghuchandrika
Author(s): Bramhanand Sarasvati, Harihar Shastri
Publisher: Vidya Mudrakshar Shala

View full book text
Previous | Next

Page 14
________________ Shri Mahavir Jain Aradhana Kendra २ www.kobatirth.org. अद्वैतमञ्जरी । Acharya Shri Kailassagarsuri Gyanmandir कविषयत्वक्षणे एव तादृशाविद्यास्तमयस्संभवति । चरमधीरूपविद्यावतः क्षणस्याविद्यातत्प्रयुक्तदृश्यविशिष्टकालपूर्वत्वाभावनियमेन सिद्धस्याविद्यास्तमयस्य विदेहताकालीनस्य विद्यावति क्षणे संभवाभावात् । अत आह— मिथ्याबन्धविधूननेन विकल्पोशित इति । ब्रह्मात्मैक्याज्ञानरूपवन्धस्य तादृशास्तमयेन दृश्यशून्य इत्यर्थः । अत्र बन्धस्य मिथ्यात्वोक्त्या तदुच्छेदस्य ज्ञानाधीनत्वज्ञा-' पनेन न ज्ञानोत्पत्तिकालीनत्वमिति ज्ञापितम् । तथा च विधेये उद्देश्यतावच्छेदककालावच्छिन्नत्वबोधस्यौत्सर्गिकत्वात् सर्गाद्यकालीनव्यणुकपक्षकजन्यतासंबन्धेन कर्तृसाध्यकानुमितौ निरवच्छिन्ने कर्तरि विधेये तादृशकालावच्छिन्नत्ववा - धवत् प्रकृतेऽपि तस्य बाधितत्वात् न तत्र तद्बोधः । अत्र बन्धविधूननमविद्यातत्कार्यशून्यत्वं दृश्यशून्यत्वं अनादिसाधारणदृश्यशून्यत्वमिति तयोर्भेदः । विधूननेनेति तृतीया ज्ञापकहेतौ । न तु कारकहेतौ । न ह्यविद्याया अस्तमयो नाम व्यावहारिकध्वंसरूपो विद्याजन्योऽस्मत्सिद्धान्ते स्वीक्रियते । दृश्यान्तरध्वंसो वा तज्जन्यः । तथा सति तस्य निवर्तकाभावेन 'विद्वान्नामरूपाद्विमुक्त' इत्यादिश्रुतिबोधितस्य विदुषि सर्वदृश्योच्छेदस्य बाधापत्तेः । तत्वज्ञानोत्पत्तिद्वितीयक्षणे हि तत्वज्ञानादिसर्व दृश्यनाशोत्पादात् उक्तक्षणद्वितीयक्षणे उक्तनाशस्य नाशोत्पत्त्यसम्भवः । तत्वज्ञानजन्यस्य नाशस्यैव तत्वज्ञाननाशहेतुत्वे स्वीकृतेऽप्युक्तवाश्रापत्तेस्तादवस्थ्यात् । तत्वज्ञानजन्यस्य दृश्यान्तरनाशस्य तत्वज्ञानस्य च यौ नाशौ तयोनशकाभावात्तयोः स्वनाशकत्व स्वीकारेऽप्युक्तापत्तितादवस्थ्यात् अप्रामाणिकानन्तनाशकल्पने गौरवाच्च । तस्माच्चरमतत्वज्ञानस्य दृश्याश्रयकालपूर्वत्वाभावनियम एव स्वीक्रियते । न तु नाशहेतुत्वम् । यत्तु बद्धपुरुषैः प्रातीतिकमस्तमयादिकं कल्प्यते । न तस्य नाशहेतुत्वम् । यद्यपि ज्ञापकहेतुत्वमपि दृश्यास्तमयं प्रत्यविद्यास्तमयत्वेन नास्ति । जीवन्मुक्ते प्रातीतिकाविद्यास्तमये तद्यभिचारित्वात् । जीवन्मुक्ते प्रातीतिकस्य दृश्यास्तमयस्य करूपने नियमाभावात् । तथापि दृश्यास्तमयकालीनत्वरूपेणाविद्यास्तमयस्य दृश्यास्तमयं प्रत्यस्त्येवेति ध्येयम् । अथ वा मास्तु प्रातीतिकं तादृशाविद्यास्तमयादिकम् । अविद्योच्छेदोपलक्षितः पूर्णानन्दरूप आत्मा मोक्षः । अविद्योच्छेदश्च तदीयस्थूलसूक्ष्मरूपाश्रयकालपूर्वत्वाभावः सर्वदृश्याश्रयकालपूर्वत्वाभावरूपेण दृश्योच्छेदेन व्याप्तः । मोक्षस्य दृश्योच्छेदोपलक्षितात्मरूपकैवल्यरूपत्वात् । यद्वा । ननु, दृश्योच्छेदस्तत्वज्ञानोत्पत्तिक्षणे न सम्भवति । अनादिदृश्यानां ज्ञानानुच्छेद्यत्वादविद्यातत्कार्ययोरेव तदुच्छेद्यत्वात्तत्वाह - मिथ्याबन्धेति । मिथ्याबन्धविधूननेन विकल्पोज्झित इति योजना । तथा च अविद्योच्छेदेन दृश्योच्छे For Private and Personal Use Only

Loading...

Page Navigation
1 ... 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 ... 336