Book Title: Laghuchandrika
Author(s): Bramhanand Sarasvati, Harihar Shastri
Publisher: Vidya Mudrakshar Shala

View full book text
Previous | Next

Page 8
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org , ( २ ) तिबन्धम्, अध्याप्यचात्मीयमनुमतं भाष्यमन्तेवासिनः, अभिषिच्य चाद्वैतमतपरिपालनाधिपत्ये सच्छिष्यान् आसाद्य चातुलां कीर्तिम्, आससाद च पुनरैश्वरं धामेति । अनन्तरं च तेषामेव मतमवलम्बमानाः विवरणकाराचार्यवाचस्पतिमिश्रादिश्रीमदप्पयदीक्षितवर्यपर्यन्ताः प्राञ्च आचार्याः अनवरतपरिचीयमानभाष्यार्थतत्त्वाः विवरणवाचस्पत्यपरिमलन्यायरक्षामण्यादिप्रबन्धजातैरुन्मूलितकुमतिकुतर्कम द्वैतमेव प्रत्यतिष्ठिपन्नित्यत्व नास्ति विशयः । अनन्तरं चार्वाचीनैः कैश्चिद्ध्वान्तजान्तमत प्रविष्टैरनिवार्याद्वैतेद्वषगाढानलकलितहृदयैः स्वमनीषा परिकल्पितयुक्तिवाक्याभासविस्तृतैः न्यायामृतादिग्रन्थैराकुलीकृतमिव भवत्यद्वैतमतमित्यालोच्य सर्वतन्त्र स्वतन्त्राः अतिलोकोत्तरसत्तकपेतप्रबन्धनिर्माणचातुरीधुरीणाः सर्वज्ञशिरोमणयः श्रीमधुसूदनसरस्वतीब्रह्मानन्दयतीन्द्रवराः निखिलानपि लोकाननुजिघृक्षवः द्वैतवादिपरिकल्पितकुयुक्तितूलवातूलान् निखिलानर्थव्रातनिदानभूतानाद्यविद्योन्मूलनानन्यसाधनाद्वितीयब्रह्म Acharya Shri Kailassagarsuri Gyanmandir निश्चयप्रत्यर्थिभूतासम्भावनादिदोषशङ्कापङ्कक्षालनस्वर्धुनी निर्झरायमाणवाग्झरीगुम्भितान् अद्वैतसिद्धिब्रह्मानन्दीयादीन् प्रबन्धान् व्यरचयन् । यद्यप्यस्मिन्महति महीमण्डले श्रीमच्चङ्करभगवत्पादीयमतानुबन्धिप्रौढब्रह्मानन्दी यादिप्रबन्धपरिशलिनार्हमतयो विरलाः पण्डिताः, तथापि क्वचित् क्वचित् इहजन्मनि जन्मान्तरे वा सन्ततसन्तन्यमानसत्कर्मसन्ताननितान्तनिर्मलान्तःकरणाः आत्मतत्त्वं विविदिषन्त्येव । तेषां चाकलय्य ग्रन्थदौर्लभ्यं विषीदतां मुमुक्षूणामत्यन्तोपकाराय महात्मभिर्महता प्रवासेन विनिमितानामद्वैतप्रबन्धानां प्रचारणेनात्मीयं मानुषं जन्म चरितार्थयितुमध्यात्मविद्याविचारपरमानसानामनुग्रहपात्रतां चात्मानमुपनेतुमद्वैतमञ्जर्यभिघालंकृताद्वैतमतानुबन्धिप्रबन्धजातमुद्रणकार्ये महति प्रावर्तिष्ट सहृदयदासस्साम्बशिवार्यः । मुद्रणाय च सम्पादितेषु कोशेषु चम्पकारण्यवास्तव्य श्रीमन्महामहोपाध्यायविरुदाङ्कितप'दवाक्य प्रमाणपारावारपारीणश्रीमद्राजुशास्त्रयपरनामक श्रीमत्त्यागराजमखिराजानुग्रहलब्धमेकं कोशं — श्रीमत्परमहंसपरिव्राजकाचार्यस्वयंप्रकाशयतीन्द्रपरिपालितारयपुराख्यग्रामस्थाद्वैत कोशशालायास्समानीतं द्वितीयं कोशं वटारण्यक्षेत्रस्थपुस्तकशालायास्समानीतं तृतीयं च एडयात्तुमङ्गलग्रामाभिजनचतुस्तन्त्र पारावारपारीणश्री मदप्पुशास्त्रिणां कोशं अविच्छिन्नसत्सम्प्रदायसिद्धसमग्रपाठं प्रमाणीकृत्य सम्यक् परिशोध्य कुम्भघोणक्षेत्रस्थश्रीविद्यामुद्राक्षरशालायां मुद्राक्षरैरङ्कयित्वा सञ्चारितां For Private and Personal Use Only

Loading...

Page Navigation
1 ... 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 ... 336