Book Title: Kural Kavya
Author(s): G R Jain
Publisher: Vitrag Vani Trust Registered Tikamgadh MP

View full book text
Previous | Next

Page 12
________________ कुरल काव्य परिच्छेदः ५ गृहस्थाश्रमः आश्रमाः खलु चत्वारस्तेषु धन्या गृहस्थिताः । मुख्याश्रया हि ते सन्ति भिन्नाश्रमनिवासिनाम् ।।१।। अनाथानां हि नाथो ऽयं निर्धनानां सहायकृत् । निराश्रितमृतानांच गृहस्थः परमः सखा || २ || गृहिणः पथ कर्माणि स्यात्रतिर्देवपूजनम् । बन्धुसाहाय्यमातिथ्यं पूर्वेषां कीर्तिरक्षणम् || ३ || परनिन्दाभयं यस्य बिना दानं न भोजनम् । कृतिनस्तस्य निर्बीजो वंशो नैव कदाचन ||४|| यत्र धर्मस्य साम्राज्यं प्रेमाधिक्यंच दृश्यते । तद्गृहे तोषपीयूषं सफलाश्च मनोरथाः ||५|| गृही स्वस्यैव कर्माणि पालयेद् यत्नतो यदि । तस्य नावश्यका धर्मा भिन्नाश्रमनिवासिनाम् ||६|| धर्मेण संगतं यस्य कार्यं संजायते सदा । मुमुक्षुजनमध्ये तु स श्रेष्ठ इति कीर्तितः ॥७॥ यो गृही नित्यमुद्युक्तः परेषां कार्यसाधने । स्वयंचाचारसम्पन्नः पूतात्मा स ऋषेरपि ॥८॥ धर्माचारौ विशेषेण नित्यं सम्बन्धभाजिनौ । जीवनेन गृहस्थस्य सुकीर्तिस्तस्य भूषणम् ||६|| विदधाति तथा कार्यं यथा यद्विहितं विधो । विबुधः स गृही सत्यं मान्यैरार्यैः प्रकीर्तितः ||१०||

Loading...

Page Navigation
1 ... 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 ... 332