________________
कुरल काव्य
परिच्छेदः ५
गृहस्थाश्रमः
आश्रमाः खलु चत्वारस्तेषु धन्या गृहस्थिताः । मुख्याश्रया हि ते सन्ति भिन्नाश्रमनिवासिनाम् ।।१।।
अनाथानां हि नाथो ऽयं निर्धनानां सहायकृत् । निराश्रितमृतानांच गृहस्थः परमः सखा || २ || गृहिणः पथ कर्माणि स्यात्रतिर्देवपूजनम् । बन्धुसाहाय्यमातिथ्यं पूर्वेषां कीर्तिरक्षणम् || ३ ||
परनिन्दाभयं यस्य बिना दानं न भोजनम् । कृतिनस्तस्य निर्बीजो वंशो नैव कदाचन ||४|| यत्र धर्मस्य साम्राज्यं प्रेमाधिक्यंच दृश्यते । तद्गृहे तोषपीयूषं सफलाश्च मनोरथाः ||५||
गृही स्वस्यैव कर्माणि पालयेद् यत्नतो यदि । तस्य नावश्यका धर्मा भिन्नाश्रमनिवासिनाम् ||६||
धर्मेण संगतं यस्य कार्यं संजायते सदा । मुमुक्षुजनमध्ये तु स श्रेष्ठ इति कीर्तितः ॥७॥
यो गृही नित्यमुद्युक्तः परेषां कार्यसाधने । स्वयंचाचारसम्पन्नः पूतात्मा स ऋषेरपि ॥८॥
धर्माचारौ विशेषेण नित्यं सम्बन्धभाजिनौ । जीवनेन गृहस्थस्य सुकीर्तिस्तस्य भूषणम् ||६||
विदधाति तथा कार्यं यथा यद्विहितं विधो । विबुधः स गृही सत्यं मान्यैरार्यैः प्रकीर्तितः ||१०||