SearchBrowseAboutContactDonate
Page Preview
Page 11
Loading...
Download File
Download File
Page Text
________________ कुरल काव्य परिच्छेदः ४ धर्ममाहात्म्यम् धर्मात् साधुतरः कोऽन्यो यतो विन्दन्ति मानवाः । पुण्यं स्वर्गप्रदं नित्यं निर्वाणंच सुदुर्लभम् ||१|| धर्मान्नास्त्यपरा काचित् सुकृतिर्देहधारिणाम् । तत्त्यागान्न परा काचिद् दुष्कृतिर्देहभाजिनाम् ||२|| सत्कृत्यं सर्वदा कार्यं यदुदर्के सुखावहम् । पूर्णशक्तिं समाधाय महोत्साहेन धीमता || ३ || सर्वेषामेव धर्माणामेष सारो विनिश्चितः । मनः शुद्धिं विहायान्यो वृथैवाडम्बरो महान् ||४|| दुर्वचोलोभकोपेर्ष्या हातव्या धर्मलिप्सुना । इदं हि धर्मसोपानं धर्मज्ञैः परिनिश्चितम् ||५| करिष्यामीति संकल्पं त्यक्त्वा धर्मी भव द्रुतम् । धर्म एव परं मित्रं यन्मृत्यो सह गच्छति ॥ ६ ॥ धर्मेण मा पृच्छैवं कदाचन । को गुणः खलु शिवकावाहकान् दृष्ट्वा तस्यांचारूढभूपतिम् ||७|| व्यर्थ न याति यस्यैकं धर्माचारं विना दिनम् । जन्ममृत्युमहाद्वारं मुद्रितं तेन साधुना ॥ ८ ॥ सुखं धर्मसमुद्भूतं सुखं प्राहुर्मनीषिणः । अन्यथा विषयोद्भूतं लञ्जादुःखानुबन्धि तत् ||६|| कार्यं तदेव कर्तव्यं यत् सदा धर्मसंभृतम् धर्मेणासंगतं कार्यं हातव्यं दूरतो द्रुतम् ||१०|| 4
SR No.090260
Book TitleKural Kavya
Original Sutra AuthorN/A
AuthorG R Jain
PublisherVitrag Vani Trust Registered Tikamgadh MP
Publication Year2001
Total Pages332
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy