________________
कुरल काव्य
परिच्छेदः 3 मुनिमाहात्म्यम्
परिग्रह परित्यज्य जाता ये तु तपस्विनः । तेषां गायन्ति शास्त्राणि माहात्म्यं सर्वतोऽधिकम् 119||
ऋषीणां पूर्णसामर्थ्यं वेत्तुं को मानवः क्षमः । दिवंगतान् यथा जीवन् संख्यातुं को जनः क्षमः ||२||
मुक्तेर्भिन्नं भवं ज्ञात्वा त्यक्तो येन महात्मना । उद्योतितं जगत्सर्वं तेनैव निजतेजसा ||३||
स्वर्गक्षेत्रस्य बीजानि संयमेन तपोधनाः । इन्द्रियाणि वशे येषामंकुशेन गजो यथा ||४||
विजिताक्षमहर्षीणां शक्तिरत्रास्ति कीदृशी । ज्ञातुमिच्छसि चेत्तर्हि पश्य भक्तं सुराधिपम् ||५|
करोति दुष्करं कार्यं सुकरं पुरुषोत्तमः । करोति सुकरं कार्य दुष्करं पुरुषाधमः ।। ६ ।।
स्पर्शे रसेऽथवा गन्धे रूपे शब्दे च यन्मनः । क्रमते नैव तस्यास्ति योगो विष्टपशासने ||७
ये सन्ति धार्मिका ग्रन्थाः समस्ते धरिणीतले । आलोकं तेऽपि कुर्वन्ति मुनीनां सत्यवादिनाम् ||८|| ||
त्यागस्य शिखरारूढो मोहग्रन्थिमपास्य यः ।
क्षणं सहेत तत्क्रोधमेवं नास्ति नरो भुवि || ६ || साथुस्वभावमापन्ना मुनयो ब्राह्मणा मताः । यतस्तेषां सदा चित्ते जीवानां करुणा स्थिता ||१०||
3