SearchBrowseAboutContactDonate
Page Preview
Page 9
Loading...
Download File
Download File
Page Text
________________ परिच्छेदः २ मेषमहिमा. यथासमयसंजाता वृष्टिर्यस्योपकारिणी । वारिवाहः सुधारूपस्तेनेदं वर्तते जगत् ।।१।। सर्वस्वादिष्टखाद्यानां मूलं जलद उच्यते । नेदमेव स्वयं वारि भोजनांग प्रतिष्ठितम् ।।२।। मेघवृष्टिं बिना लोके दुर्भिक्षं संप्रजायते । समन्तात् सागरैर्युक्ता भूरपि स्यात् प्रपीडिता ।। ३11 जीवनाधारभूतानि स्वर्गस्रोतांसि वारिदाः । विलीनाश्चेत् कृषि नूनमहास्यन् हलजीविनः ।।४।। तिवृष्टिबलाज्जाता. क्षा में किस मानकाः । समृद्धास्ते हि भूयोऽपि जायन्ते वारिवर्षणात् ।।५।। खात् पतन्ती पयोवृष्टिर्विरता चेत् कदाचन । तृणजन्मविलुप्तिः स्यादन्येषां दूरगा कथा ।।६।। वीभत्सदारुणावस्था जायेताहो सरित्पतेः । तज्जलस्य ग्रहोत्सर्गौ न कुर्याच्चेत् पयोधरः ।।७।। देवानां परितोषाय सपर्या पंक्तिभोजनम् । सर्वाण्येतानि लुप्यन्ते विलुप्ते व्योम्नि वारिदे ।।८।। दानिनां दानकर्माणि शूराणां चैव शूरता। जपहोमक्रियाः सर्वा नष्टा नष्टे वलाहके ।।६।। संभवन्ति समस्तानि कार्याणि जलदागमे । सदाचारोऽपि तेनैव विदुषामेष निश्चयः ।।१०।।
SR No.090260
Book TitleKural Kavya
Original Sutra AuthorN/A
AuthorG R Jain
PublisherVitrag Vani Trust Registered Tikamgadh MP
Publication Year2001
Total Pages332
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy