SearchBrowseAboutContactDonate
Page Preview
Page 8
Loading...
Download File
Download File
Page Text
________________ - कुक्ल काव्य - परिच्छेदः १ ईश्वर स्तुतिः 'अ' वर्णो वर्तते लोके शब्दानां प्रथमो यथा । तथादिभगवानस्ति पुराणपुरुषोत्तमः ||१|| यदि नो यजसे पादौ सर्वज्ञपरमेष्टिनः । अखिलं तर्हि वैदुष्यं मुधा ते शास्त्रकीर्तने ।।२।। वर्तेते पावनौ पादौ स्वर्णाम्भोजविहारिणः । शरप्यौ हृदये यस्य स नूनं चिरमेधते ।।३।।। वीतरागस्य देवस्य रक्तः पादारविन्दयोः ।। यो धन्यः स घुमाल्लोके दुःखी न स्यात् कदाचन ।।४।। उत्साहेन समायुक्ता नित्यं गायन्ति ये प्रभोः । गुणान्, भवन्ति ते नैव कर्मदुःखोपभोगिनः ।।५।। आत्मना जयिना तेन यो धर्माध्वा प्रदर्शितः । तं नित्यं येऽनुगच्छन्ति ते नूनं दीर्घजीविनः ।।६।। दुःखजालसमाकीर्णेऽगाधे संसारसागरे । कृच्छ्रान्मुक्तः स एवास्ति यस्यैकः शरणं प्रभुः ।।७।। धर्मसिन्धोर्मुनीशस्य लीना ये पदकंजयोः । त एव तरितुं शक्ताः क्षुब्धं तारुण्यवारिधिम् ।।८।। निष्क्रियेन्द्रियसंकाशा मानवास्ते महीतले । पादद्वयं नमस्यन्ति ये नाष्टगुणधारिणः ।।६।। जन्ममृत्युमहाम्भोधेः पारं गच्छन्ति ते जनाः । पावनी शरणं येषां योगीन्द्रचरणौ ध्रुवम् ।।१०।।
SR No.090260
Book TitleKural Kavya
Original Sutra AuthorN/A
AuthorG R Jain
PublisherVitrag Vani Trust Registered Tikamgadh MP
Publication Year2001
Total Pages332
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy