Book Title: Kayotsargadhyana
Author(s): Amrutlal Kalidas Doshi
Publisher: Jain Sahitya Vikas Mandal

View full book text
Previous | Next

Page 99
________________ परिशिष्ट-१ સૂરમંત્રબુહ૫વિવરણનો સંદર્ભ अनन्तज्ञान-अनन्तदर्शन-अनन्तवीर्य-अनन्तानन्दमयं पीठ चतुष्टयमेवास्ति । ध्यातुनित्यस्मरणे अनन्त चतुष्टयसिद्धिः सम्पद्यते। अतोऽनन्तचतुष्टयगर्भितश्चतु.पीठस्वामी सर्वकर्मक्षयकारी मोक्षरूपो मन्त्रराजो मेरुसप्तसङ्ख्यः । ॐ ह्री श्री इरिमेरु किरिमेरु गिरिमेरु पिरिमेरु सिरिमेरु हिरिमेरु आयरियमेरु स्वाहा। __येषां पञ्चसङ्ख्यस्तेषां 'कि' मध्ये 'इगि' संभवति । मेरुशब्देनार्हन्त्यम् । आर्हन्त्येनार्हन्तः। इ-कि भवपरावर्तरूपं भवस्थं वा । भवोऽप्येकेन्द्रियादिको न परोपतापकः, चिन्तामणिकल्पद्रुमादिकः, न विकलेन्द्रियत्यम् । भवे भवेऽत्यद्भुतकरणत्वम्, निर्वाहकत्वं च लोकानां लोकोत्तराणां च । गिरीति राज्यावस्थारूपं जनसमृद्धिकरणसामर्थ्यम् । पिरीति दीक्षावस्थारूपं परमप्रीतिसम्पादकत्वं स्थावरजङ्गमानाम् । सिरीति कैवल्यरूपं सर्वज्ञता च । हिरीति महापूजासम्बद्धं त्रिजगत्यपि अप्रतिहतशासनत्वम् । आइरीति सङ्घरूपं मोक्षरूपं च । तथा चाहुर्वृद्धाः - आधे द्वे भवरूपसौख्यजनने, राज्यादि तार्तीयके, तुर्य दीक्षितभावरूपमतुलं, कैवल्यरूपं परम् । पूजाकारि महत्त्वभावकलितं, षष्ठं तथान्त्यं पदं, श्रीसङ्घो भगवान् महोदयपदं, श्रीमन्त्रराजेऽस्त्यदः॥१॥ मन्त्रराजो भगवान् अहत्त्वरूपः कथं सूरिमन्त्रो भण्यते ? सत्यम् , गुरुशिस्ययोरभेदात् । गुरुरहन् शिष्या गणधरभृतः, तेऽपि तीर्थंकररूपाः, गणधरकृतमहन्तोऽपि न बाधन्ते। अतः सूरिमन्त्रः मन्त्रराजः। कर्मक्षयार्थ प्रत्यहं १०८ ध्येयः। __** ** ** यो विधिना ऊँ ही अहं युक्त-मन्त्रराजपदानि लक्षत्रयं जपति स तृतीयभवे सिध्यति । इहलोके च गौतम इति श्रीपुण्डरीकादेशः। श्रीयुगादिनाथसम्बद्धन्यासे यस्य कस्यापि महानैष्ठिकस्य सूरेभैरुरूपो मन्त्रराजः सिध्यति तस्य विद्यासहस्रं मन्त्रसहस्रं च प्रसङ्गेन सिध्यति, यतश्चतुःपीठस्वामी मन्त्रराज स्वाहान्तः। [(सूभित्रमड४८५वि१२) 'सूरिमंत्र४८५सभुयय'; ५.८८-८८]. Jain Education International 2010_03 For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112