Book Title: Kavyashatakam Mulam
Author(s): Jinendrasuri
Publisher: Harshpushpamrut Jain Granthmala

View full book text
Previous | Next

Page 989
________________ 668 [ काव्यषट्क श्रीहर्ष कविराजराजिमुकुटालंकारहीरः सुतं श्रीहीरः सुषुवे जितेन्द्रियचयं मामल्लदेवी च यम् / द्वाविंशो नवसाहसाङ्कचरिते. चम्पूकृतोऽयं महा काव्ये तस्य कृती नलीयचरिते सर्गो निसर्गोज्ज्वलः / / 146 / / 5 यथा यूनस्तद्वत्परमरमणीयापि रमणी कुमाराणामन्तःकरणहरणं नैव कुरुते / मदुक्तिश्चेदन्तमंदयति सुधीभूय सुधियः किमस्या नाम स्यादरसपुरुषानादरभरैः / / 150 / / दिशि दिशि गिरिग्रावाणः स्वां वमन्तु सरस्वती तुलयतु मिथस्तामापातस्फुरद्ध्वनिडम्बराम् / स परमपरः क्षीरोदन्वान् यदीयमुदीयते मथितुरमृतं खेदच्छेदि प्रमोदनमोदनम् // 151 / / ग्रन्थग्रन्थिरिह क्वचित्क्वचिदपि न्यासि प्रयत्नान्मया प्राशंमन्यमना हठेन पठिती मास्मिन्खल: खेलतु / श्रद्धाराद्धगुरुश्लथीकृतदृढग्रन्थिः समासादयत्वेतत्काव्यरसोनिमज्जनसुखव्यासज्जन सज्जनः / / 152 / / ताम्बूलद्वयमासनं च लभते य: कान्यकुब्जेश्वराद्यः साक्षात्कुरुते समाधि परं ब्रह्म प्रमोदार्णवम् / यत्काव्यं मधुवर्षि धर्षितपरास्तषु यस्योक्तयः 20 श्रीश्रीहर्षकवेः कृतिः कृतिमुदे तस्याभ्युदीयादियम् / / 153 / / // इति महाकविहर्षप्रणीते नैषधीयप्रकाशे द्वाविंशः सर्गः समाप्तः // 22 // . समाप्तश्चायं ग्रन्थः // .

Loading...

Page Navigation
1 ... 987 988 989 990 991 992 993 994 995 996 997 998 999 1000 1001 1002 1003 1004 1005 1006 1007 1008 1009 1010 1011 1012 1013 1014