Book Title: Kavyashatakam Mulam
Author(s): Jinendrasuri
Publisher: Harshpushpamrut Jain Granthmala
View full book text
________________ (5) नैषधीयचरितम् :: द्वाविंशः सर्गः ] [667 निर्माय द्वंयमेतदप्सु विधिना पाणी खलु क्षालितो तल्लेशैरधुनापि नीरनिलयैरम्भोजमारभ्यते // 142 / / लावण्येन तवाखिलेन वदनं तत्पात्रमात्रस्पृशा चन्द्रः प्रोञ्छनलब्धतार्धमलिनेनारम्भि शेषेण यः / 5 तल्लेखापि शिखामणि: सुषमयाऽहंकृत्य शंभोरभू दब्जं तस्य पदं यदस्पृशदतः पद्म च सद्म श्रियः / / 143 / / सपीते: संप्रीतेरजनि रजनीश: परिषदा परीतस्ताराणां दिनमणिमणिग्रावमणिकः। प्रिये ! पश्योत्प्रेक्षाकविभिरभिधानाय सुशक: 10 सुधामभ्युद्धतु धृतशशकनीलाश्मचषकः // 144 / / ग्रास्यं शीतमयूखमण्डलगुणानाकृष्य ते निर्मितं शङ्के सुन्दरि !, शर्वरीपरिवृढस्तेनैष दोषाकरः / / प्रादायेन्दुमृगादपीह निहिते पश्यामि सारं दृशौ त्वद्वक्त्रे सति वा विधौ धृतिमयं दध्यादनन्धः कुतः / / 145 / / 15 शुचिरुचिमुडुगणनणमगममुमति कलयसि कृशतनु ! न गगनतटमनु / प्रतिनिशशशितलविगलदमृतभृत-. - रविरथहयचयखुरबिलकुलमिव // 146 / / उपनतमुडपुष्पजातमास्ते - भवतु जनः परिचारकस्तवायम् / तिलतिलकितपर्पटामिन्दु वितर निवेद्यमुपास्स्व पञ्चबाणम् / / 147 / / स्वर्भानुप्रतिवारपारणमिलद्दन्तौघयन्त्रोद्भव श्वभ्रालीपतयालुदीधितिसुधासारस्तुषारद्युतिः / 25 पुष्पेष्वासनतत्प्रियापरिणयानन्दाभिषेकोत्सवे देवः प्राप्तसहस्रधारकलशश्रीरस्तु नस्तुष्टये // 148 / /

Page Navigation
1 ... 986 987 988 989 990 991 992 993 994 995 996 997 998 999 1000 1001 1002 1003 1004 1005 1006 1007 1008 1009 1010 1011 1012 1013 1014