Book Title: Kavyashatakam Mulam
Author(s): Jinendrasuri
Publisher: Harshpushpamrut Jain Granthmala

View full book text
Previous | Next

Page 1008
________________ (6) मेघदूत : उत्तरमेघः ] [ 987 साभिज्ञान-प्रहितकुशलैस्तद्वचोभिर्ममापि प्रातःकुन्दप्रसवशिथिलं जीवितं धारयेथाः // 50 // कच्चित्सौम्य व्यवसितमिदं बन्धुकृत्यं त्वया मे प्रत्यादेशान्न खलु भवतो धीरतां कल्पयामि / निःशब्दोऽपि प्रदिशसि जलं याचितश्चातकेभ्यः प्रत्युक्तं हि प्रणयिषु सतामीप्सितार्थक्रियेव / / 1 / / एतत्कृत्वा प्रियमनुचितप्रार्थनावतिनो मे सौहार्दाद्वा विधुर इति वा मय्यनुक्रोशबुद्धया / इष्टान्देशाञ्जलद विचर प्रावृषा संभृतश्री. 10 र्मा भूदेवं क्षणमपि च ते विद्युता विप्रयोगः / / 12 / / || महाकविश्रीकालिदासविरचिते मेघदूते काव्ये उत्तरमेघः समाप्तः / / // इति काव्यषट्कम् / /

Loading...

Page Navigation
1 ... 1006 1007 1008 1009 1010 1011 1012 1013 1014