Book Title: Kathakosha Prakarana
Author(s): Jineshwarsuri,
Publisher: Singhi Jain Shastra Shiksha Pith Mumbai
View full book text
________________
5
10
15
१८०
श्रीजिनेश्वरसूरिकृत-कथाकोशप्रकरणे
[ २८-३० गाथा
चासारता प्रतिपत्तिलक्षणं, मोक्षस्य तत्कारणानां च सम्यक्त्वादीनां सारताप्रतिपादकम् । अत एव संसारं प्रति निर्वेदो मोक्षं प्रत्यभिलाष इत्येवंभूतफलप्रसाधकत्वात् हेतोः, 'तदपि ' मदीयवचनं कल्पितचरितोपनिबद्धं, 'हु' अवधारणे । 'समयप्रसिद्धमेव ' जिनोक्त सिद्धान्तमेवेति ।
उपसंहरन्नाह -
सम्मत्ताइगुणाणं लाभो जइ होज्ज कित्तियाणं पि । ता होज्ज णे पयासो सकयत्थो जयउ सुयदेवी ॥ २९ ॥
व्याख्या - 'सम्यक्त्वादिगुणानां लाभो यदि भवति कियतामपि भव्यानामिति गम्यते । 'ततो भवेदस्माकं प्रयासः' क था कोश विरचनागोचरः, 'सन्' शोभनः 'कृतो' निष्पादितः 'अर्थो' येन स तथा । अन्तमङ्गलमाह - 'जयतु श्रुतदेवी' जयत्विति स्तुतिवाचकं वचः, श्रुतदेवी सरखतीति ॥ २९ ॥ साम्प्रतं कथाकार आत्मानं निर्दिदिक्षुराह -
सिरिवद्धमाणमुणिवइसीसेणं विरइओ समासेणं ।
एस कहाणयकोसो जिणेसरायरियनामेण ॥ ३० ॥
व्याख्या – 'श्रीवर्धमानमुनिपतिशिष्येण'
श्रीवर्धमानाचार्य पादान्तेवासिना, 'विरचितः कृतः, 'समासेन' संक्षेपेण, 'एष' प्रक्रान्तः 'कथानककोशः । षट्त्रिंशन्मूलकथानकानां कोशो निधिः । जिनेश्वराचार्यनाम्ना कविनेति ॥ ३० ॥
Jain Education International
ॐ*
॥ श्रीजिनेश्वरसूरिविरचितकथानककोशविवरणं समाप्तम् ॥ ॥ ग्रंथाग्रं ५००० ॥
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 357 358 359 360 361 362 363 364