Book Title: Karpur Manjari
Author(s): Rajshekhar Mahakavi
Publisher: NIrnaysagar Mudranalay

View full book text
Previous | Next

Page 6
________________ - राजशेखरस्य कालनिर्णयः - वस्तुतस्तु राजशेखरकविः ८८४ मितख्रिस्तसंवत्सरादनन्तरम् ९५९ संवत्सरात्पूर्व मध्ये वर्तमानेषु ७५ वर्षेषु बभूव. यतः ८८४ मितसंवत्सरपर्यन्तं कश्मीरान्पालयितुरवन्तिवर्मणः समकालीनयोरानन्दवर्धनरत्नाकरयो राजशेखरकृतौ स्तुलिश्लोको सूक्तिमुक्तावलि-सुभाषितहारावल्योर्विशिष्टकविप्रशंसाप्रकरणे लभ्येते. 'तत्कर्ता कश्चिदन्यो राजशेखर' इत्यपि न वक्तुं युक्तम् , यतो बालरामायगवर्णितानामकालजलद-तरल-सुरानन्दकवीनां राजशेखरपूर्वपुरुषाणां नातिप्रसिद्वानामपि देशकुलनामग्रहणपूर्वकं वर्णनश्लोकास्तत्रैव विद्यन्ते, तन्मध्य एव रत्नाकरानन्दवर्धनयोरपि वर्णनमस्ति. तेन सर्वेषां श्लोकानां कर्ता एक एव राजशेखरः, अथ च ८८१ मिते शके ९५९ मिते वा निस्ताब्दे जैन सोमदेवेन यशस्तिलकचम्यूः प्रगीता. तत्र तृतीय आश्वासे माघादिक विनामसु राजशेखरस्यापि नाम वर्तते. तस्मात्तत्कालात्प्राचीनो राजशेखरः, न च प्रबन्धकोषकर्तुजैनराजशेखरसूरेस्तत्र नामास्तीत वक्तव्यम्. प्रबन्धकोषस्य १३४७ मिते संवत्सरे निर्माणाद्राजशेखरसूरेर्यशस्तिल ककर्तुरर्वाचीनत्वात्. - राजशेखरस्य वंशदेशादिपरिचयः - राजशेखरो ब्राह्मणः क्षत्रियो वाऽऽसीदिति संदिग्धमेव. यतो बाल रामायगादिषु 'उपाध्यायः' 'गुरुः' इत्यादिपदैरात्मानं विशिनष्टि, तेन तस्य ब्राह्मगत्वं स्फुट प्रतीयते, क्षत्रिय स्याध्यापनादिष्वनधिकारात्. राज्ञां शेखरो राजशेखर इति तु समासो नोचितः राजा चन्द्रः शेखरो यस्य स इत्युचितः समासः. यतः कर्पूरमजरीप्रस्तावनायाम् 'रजनीवल्लभशिखण्डः' इति राजशेखरनाम्नः पर्यायशब्दो वर्तते. रजनीवल्लभश्चन्द्रः शिखण्डः शेखरो यस्य इति तदर्थः; अथ च कपूरमञ्जरीप्रस्तावनायामेव 'चाहमानकुलमौलिमालिका राजशेखरकवीन्द्रगेहिनी' इत्याद्यस्ति. चाहमानकुलं 'चौहाण' इति प्रसिद्धं क्षत्रियकुलम्. यस्मिन्हम्मीरपृथ्वीराजादयः क्षितिपाला अभूवन्. तत्कुलप्रसूता च कथमस्मिन्युगे ब्राह्मणस्य भार्या भवितुमर्हति ? तस्माद्राजशेखरः क्षत्रिय आसीदिति कथमपि नातीवानुचितं भाति. राजशेखरो महाराष्ट्रदेशोत्पन्नश्चेदिदेशोत्पन्नो वेत्यत्रापि संदेह एव. यतो बालरामायणप्रस्तावनायां खप्रपितामहमकालजलदं महाराष्ट्रचूडामणिं वदति. सूक्तिमुकावल्यादिस्थकविवर्णनश्लोकेषु खपूर्वपुरुष सुरानन्दं चेदिमण्डलमण्डनं च बदति. भाति चायं चेदिदेशोद्भवः, चेदिदेशमहीपतीनां करचूलीनामेव विद्धशालभजिकादिषु

Loading...

Page Navigation
1 ... 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 ... 184