Book Title: Karpur Manjari Author(s): Rajshekhar Mahakavi Publisher: NIrnaysagar Mudranalay View full book textPage 9
________________ च बालरामायणप्रस्तावनायां वर्तते. अकालजलदकृतः कोऽपि ग्रन्थो नाद्याप्युपलब्धः. केवलं 'भेकैः कोटरशायिभिः' इत्यादिश्लोकः शाङ्गधरपद्धत्यादिषु लभ्यते. ध्वनिनातिगभीरेण काव्यतत्त्वनिवेशिना । आनन्दवर्धनः कस्य नासीदानन्दवर्धनः ॥ (सूक्तिमुक्तावलिः, सुभाषितहारावलिः.) काव्यालोकाद्यनेकग्रन्थकर्ता काश्मीरदेशोद्भवोऽवन्तिवर्मनृपतिसमकालीनोऽयमानन्दवर्धनाचार्यः प्रसिद्ध एव. अकालजलदश्लोकैश्चित्रमात्मकृतैरिव । जातः कादम्बरीरामो नाटके प्रवरः कविः ॥ __ (सूक्तिमुक्तावलिः.) सरखतीव कर्णाटी विजयाङ्का जयत्यसौ । या वैदर्भगिरां वासः कालिदासादनन्तरम् ॥ - (सूक्तिमुक्तावलिः, सुभाषितहारावलि..) ‘एकोऽभूनलिनात्ततश्च पुलिनाद्वल्मीकतश्चापरस्ते सर्वे कवयो भवन्ति गुरवस्तेभ्यो नमस्कुर्महे । अर्वाञ्चो यदि गद्यपद्यरचनैश्चेतश्चमत्कुर्वते तेषां मूर्ध्नि ददामि वामचरणं कर्णाटराजप्रिया ॥ एतच्छ्रोककी कदाचिदियमेव विजयाङ्का कर्णाटी स्यात्. एकोऽपि जीयते हन्त कालिदासो न केनचित् । . शृङ्गारे ललितोद्वारे कालिदासत्रयी किमु ।। (सूक्तिमुक्तावलिः, सुभाषितहारावलिः.) जानकीहरणं कर्तुं रघुवंशे स्थिते सति । कविः कुमारदासश्च रावणश्च यदि क्षमः ॥ (सूक्तिमुक्तावलिः.) काव्यमालाप्रथमगुच्छके औचित्यविचारचर्चायां १४४ पृष्ठे कुमारदासनामोपरि टिप्पणं विलोकनीयम्.Page Navigation
1 ... 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 ... 184