Book Title: Karpur Manjari Author(s): Rajshekhar Mahakavi Publisher: NIrnaysagar Mudranalay View full book textPage 8
________________ तयोपाध्यायः' इति कामराजसंमतः पाठः. निर्भयराज इति महेन्द्रपालस्यैव नामान्तरमिति केचित्. महीपालदेवश्च चण्डकौशिकप्रस्तावनायामार्यक्षेमीश्वरेणापि वर्णितः. 'कर्णाटीदशनाङ्कितः शितमहाराष्ट्रीकटाक्षाहतः प्रौढान्ध्रीस्तनपीडितःप्रणयिनीनूमावित्रासितः । लाटीबाहुविवेष्टितश्च मलयस्त्रीतर्जनीतर्जितः सोऽयं संप्रति राजशेखरकविाराणसी वाञ्छति ॥' अयं श्लोक औचित्यविचारचर्चायाम्, 'दातुरिधरस्य-' इत्यादिश्लोकाः सुभाषितावल्याम्, 'भासो रामिलसौमिलौ' इत्याद्याः श्लोकाः शाळेधरपद्धती, 'अकालजलदेन्दोः सा' इत्याद्या बहवः श्लोकाः सूक्तिमुक्तावलि-सुभाषितहारावल्यो राजशेखरनाम्ना समुद्धृताः सन्ति. ते च प्रसिद्धेषु राजशेखरग्रन्थेषु न प्राप्यन्ते. तस्मात्सन्त्यन्येऽपि केचन राजशेखरकृता ग्रन्था इति ज्ञायते. 'विद्धि नः षट्प्रबन्धान्' इति च बालरामायणप्रस्तावनायां खयमेव राजशेखरो वदति. अस्य कवेः शार्दूलविक्रीडितच्छन्दोनिबद्धाः श्लोका अतिसमीचीनाः सन्ति. 'शार्दूलक्रीडितैरेव प्रख्यातो राजशेखरः । शिखरीव परं वनः सोल्लेखैरुच्चशेखरः ॥' इति सुवृत्ततिलके क्षेमेन्द्रः 'आगस्कारिणि कैटभप्रमथने तत्ताडनार्थ रुषा नाभीपङ्कजमस्त्रता गमयितुं जाते प्रयत्ने श्रियः । स्वावासोन्मथनोपपादितभयभ्रान्तात्मनस्तत्क्षणादब्रमण्यपराः पुरातनमुनेर्वाग्वृत्तयः पान्तु वः ॥' अयं श्लोकः सूक्तिमुक्तावलौ राजशेखरान्तेवासिनाम्ना समुद्धृतः. तेन राजशेखरस्य कश्चन शिष्योऽपि कविरासीत्. -राजशेखरकृतोऽन्यकविपरिचयः - सूक्तिमुक्तावलि-सुभाषितहारावलि-शार्ङ्गधरपद्धतिषु राजशेखरकृताः प्राचीनकावेप्रशंसाश्लोकाः केचन समुपलभ्यन्ते, ते सर्वेऽप्यत्युक्तत्वादत्र कविनामक्रमेण समुद्रियन्ते अकालजलदेन्दोः सा हृद्या वचनचन्द्रिका । नित्यं कविचकोर्या पीयते न च हीयते ॥ (सूक्तिमुक्तावलिः, सुभाषितहारावलिः.) .. अकालजलदकवी राजशेखरस्य प्रपितामह आसीत् . 'अकालजलदस्य प्रणप्तः' इति विद्धशालभलिकाप्रस्तावनायाम्. 'स मूर्तो यत्रासीद्गुणगण इवाकालजलदः सुरानन्दः सोऽपि श्रवणपुटपेयेन वचसा । न चान्ये गण्यन्ते-तरलकविराजप्रभृतयो महाभागस्तस्मिन्नयमजनि यायावरकुले ॥ तदामुष्यायणस्य महाराष्ट्रचूडामणेरकालजलदस्य चतुर्थो दौ?किः (दौहिकिः) शीलवतीसूनुरुपाध्यायश्रीराजशेखरः' इतिPage Navigation
1 ... 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 ... 184