Book Title: Karpur Manjari
Author(s): Rajshekhar Mahakavi
Publisher: NIrnaysagar Mudranalay

View full book text
Previous | Next

Page 4
________________ प्रास्ताविकम् माधवकृत-शंकरविजय-भोजकृत सरस्वतीकण्ठाभरण-क्षेमेन्द्रकृतौचित्यविचारचर्चासुवृत्ततिलक-कविकण्ठाभरण - सोमदेवकृतय शस्तिलकचम्पू - शार्ङ्गधरपद्धति - आरोहकभगदत्तजह्वणसंगृहीतसूक्तिमुक्तावलि - हरिक विसंगृहीत सुभाषितहारावलि - वल्लभदेवसंगृहीतसुभाषितावलि-राजशेखरकृतबालरामायण - बालभारत - कर्पूरमञ्जरी-विद्धशालभञ्जिकादिसंस्कृतग्रन्थेषु, तथा विल्सनपण्डितकृत 'हिन्दूथिएटर' - भट्टमोक्षमुल्लरकृत 'इण्डिया, व्हाट् इट् कॅन् टीच् अम्'-वेबरपण्डितकृत 'हिस्टरी ऑफ् इण्डियन् संस्कृत लिटलेचर' - अनेकपण्डित संकलित 'इण्डियन् अॅण्टिक्वेरी' - डॉक्टरपीटर्सनरिपोर्ट-डॉक्टरभाण्डारकररिपोर्टादिइङ्ग्लि शभाषानिबद्धेषु प्रन्थेषु च लिखितं राजशेखरविषयं सम्यग्विलोक्य विस्तरभिया चात्र तत्सर्वं परित्यज्य तन्निर्गलितार्थं एव संक्षेपेण लिख्यते. - राजशेखरस्य समयनिश्चितावन्यमतानि - तत्र शंकरविजये ‘तन्नोदितः कश्चन राजशेखरः' इति द्वितीयसर्गप्रारम्मे, 'एवमेनमतिमर्त्यचरित्रं सेवमानजनदैन्यलवित्रम् । केरलक्षितिपतिर्हि दिदृक्षुः प्राहिणोत्सचिवमादृतभिक्षुः ॥ 'तेन पृष्टकुशलः क्षितिपालः स्वेन सृष्टमथ शात्रवकालः । हाटकात समर्पणपूर्व नाटकत्रयमवोचदपूर्वम् ॥' इति पञ्चम सर्गे, 'कविताकुशलोऽथ केरलक्ष्माकमनः कश्चन राजशेखराख्यः । मुनिवर्यममुं मुदा वितेने निजकोटीरनिघृष्टपन्नखाग्रम् ॥ प्रथते किमु नाटकत्रयी सेत्यमुना संयमिना ततो नियुक्तः ' इत्यादिचतुर्दशसर्गे च राजशेखरकथा वर्तते, नाटकत्रयनामानि तु शंकरविजये न सन्ति एतेन नाटकत्रयकर्ता केरलक्षितिपालो राजशेखरः सप्तमशतकप्रारम्भसमुद्भूतशंकराचार्यसमकालीन आसीदिति स्फुटमेव प्रतीयते. किं तु भोजप्रबन्धादिवच्छंकरविजयस्यापि समयादिनिर्णयविषये विश्वासानर्हत्वान्नैतच्छ्रद्धेयम् न चास्य शंकरविजयस्य कर्ता पण्डितशिरोमणिः सायनमाधवाचार्यः अयं च कश्चिदन्य एव नवकालिदासापर्यायो माधव इति भाति.

Loading...

Page Navigation
1 2 3 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 ... 184