Book Title: Karpur Manjari
Author(s): Rajshekhar Mahakavi
Publisher: NIrnaysagar Mudranalay

View full book text
Previous | Next

Page 5
________________ राजशेखरकृतेषु बालरामायणादिषु महेन्द्रपालस्य वर्णनमस्ति. तत्र 'इण्डियन अॅण्टिक्केरी'नामकमासिकपुस्तकस्य पञ्चदशे भागे ११२ मिते पृष्ठे 'ॐ खस्ति श्रीमहोदयसमावासितानेकगोहस्त्यश्वरथपत्तिसंपन्नस्कन्धावारात्--परमभगवतीभक्तो महाराजश्रीभोजदेवस्तस्य पुत्रस्तत्पादानुध्यातः श्रीचन्द्रभट्टारिकादेव्यामुत्पन्नः परमभगवतीभक्तो महाराजश्रीमहेन्द्रपालदेवः श्रावस्तीभुक्तौ श्रावस्तीमण्डलान्तःपातिबालयिकाविषयसंबद्धपानीयकग्रामसमुपगतान्सर्वानेव यथास्थाननियुक्तान्प्रतिवासिनश्च समाज्ञापयति--संवत्सर १०० ५० ५ माघसुदि १० निबद्धम्' इति महेन्द्रपालस्य दानपत्रं मुद्रितमस्ति. अत्र पृथक्पृथग्लिखितानामकानां संकलने जाता १५५ मिता संख्या. अयमेव श्रीहर्षवर्धनसंवत्सरः, तत्र च ६०६ वर्षेषु योजितेषु जातः ७६१ मितः निस्तसंवत्सरः. 'अयमेव पूर्वलिखितदानपत्रसमयः' इति फ़ीटपण्डितः, एतदनुरोधेनैव सुभाषितावल्युपोद्धाते राजशेखरसमयो लिखितः; किं त्वत्र श्रीहर्षवर्धनसंवत्सरादिकल्पनं युक्तिरहितमिति ७६१ मितख्रिस्तसंवत्सरे राजशेखरो बभूवेत्यपि संदिग्धमेव. दानपत्रं त्वेतद्राजशेखरवर्णितमहेन्द्रपालस्यैवास्ति, यतोऽस्मिन्दानपत्रे महोदयस्य नाम वर्तते. राजशेखरकृतबालभारतप्रस्तावनायां च 'कथमेते महोदयमहानगरलीलावतंसा विद्वांसः सामाजिकाः' इत्याद्यस्ति. महोदयमिति कान्यकुब्ज (कनौज)स्य नामान्तरम् कान्यकुब्ज महोदयम्, 'कन्याकुन्जं गाधिपुरं कौशं कुशस्थलं च तत्' इति हैमनाममालायाम् , 'महोदयः कान्यकुब्जे' इति विश्वप्रकाशमेदिनीकोषयोश्च वर्तते. बालरामायणे दशमेऽङ्केऽपि 'लक्ष्मणः-इदं पुनस्ततोऽपि मन्दाकिनीपरिक्षिप्तं महोदयं नाम नगरं दृश्यते । रामः- शश्वत्सुधामवसुधामहितं द्विषद्भिर्नो गाहितं भवति गाधिपुरं पुरस्तात् । वैदेहि देहि शफीसदृशं दृशं तदस्मिन्नितम्बिनि नितम्बवद्युसिन्धौ ॥ ८८॥ इदं द्वयं सर्वमहापवित्रं परस्परालंकरणैकहेतु। पुरं च हे जानकि, कान्यकुब्ज सरिच्च गौरीपतिमौलिमाला ॥ ८९ ॥' इत्याद्यस्ति. एतेन राजशेखरकविः कान्यकुब्जमहीपतेर्महेन्द्रपालस्य सभायामासीदिति ज्ञायते. बाणभट्ट-भवभूति-वाक्पतिराज-श्रीहर्षादयोऽन्येऽपि बहवो महाकवयः कान्यकुब्जनरपतीनां हर्षवर्धनयशोवर्मप्रभृतीनां सभासु खखसमय आसन्. - राजशेखरो दशमे शतके बभूवेति भाण्डार करपण्डितः, एवमेव वेबरपण्डितः, एकादशशतकसमाप्तौ द्वादशशतकप्रारम्भे वेति विल्सनपण्डितः, बालरामायणकर्ता राजशेखरश्चतुर्दशशतक आसीदिति च भट्टमोक्षमुल्लरनामा वदति.

Loading...

Page Navigation
1 ... 3 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 ... 184