Book Title: Kalpsutram Author(s): Bhadrabahuswami, Lakshmivallabh Upadhyay Publisher: Nirnaysagar Press View full book textPage 5
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir कल्पसूत्र उद्घोषणा ॥२॥ कल्पाss-वश्यक-दशवकालिकनियुक्ति-चूर्णि-बृहद्वृत्ति-स्थानाङ्गसूत्रवृत्ति-ज्योतिष्करण्डक-प्रवचनसारोद्धारादिषु च, समयावलिकामुहूर्तदिनपक्षमासवर्षयुगादिकालगणनायाम् अधिकमासस्य दिवसा गणिता एव तथा निशीथचूादौ अधिकमासस्य कालचूलाकथनेऽपि दिनगणनं कृतम् , अत एव तस्य निषेधकरणे शास्त्रपाठोत्थापकतादोषः तथा लौकिकशास्त्रेऽपि-धर्मसिन्धु-निर्णयसिन्धु-निर्णयदीपिकादौ अपि अधिकमासस्य-शयमासस्यापि दिनानि गणितानि, इति-जैन-लौकिकशास्त्रे संमतत्वाद् , अधिकमासस्य दिवसा गणनीया एव भवन्ति, तथा निशीथ-वृहकल्पभाष्य-चूर्णि-वृत्ति-पर्युषणाकल्पनियुक्ति-चूर्णि-समवायाङ्ग-स्थानाङ्गसूत्रवृत्त्यादौ जैनसिद्धान्ते पर्युषणाराधनं वर्षाकाले पञ्चाशतव दिनैः उक्तत्वात् संप्रति मासवृद्धौ अपि द्वितीयश्रावणे, प्रथमभाद्रपदे वा अधुना जैनटिप्पनकाऽभावे लौकिकट्टिप्पनकानुसारेणाऽपि कर्तव्यम् , अत्र केचिद् मासवृद्धौ अपि समवायाङ्गपाठानुसारेण पर्युषणापश्चात् , सप्ततिर्दिनानि स्थापयन्ति तन्न सत्यम् , तत्र मासवृद्ध्यऽभावाऽपेक्षया लिखितं ज्ञेयम् , तस्माद् अधिकमासस्य समागमने पश्चाद् दिवसशतं तदा न कोऽपि दोषः अस्य विशेषः निर्णयो नवमव्याख्यानात् , तथा अस्मत्कृत बृहत्पर्युषणानिर्णयप्रन्थाद् अवगन्तव्यः॥तथा व्यवहारचूर्णि-धर्मरत्नप्रकरणवृत्त्युक्तनियमात्-आगमेऽनिषिद्धा, निरवद्या, गीतार्थैः सम्मता, देशकालानुसार विशेषलाभकारिका परम्पराऽऽयाता आचरणाप्रवृत्तिर्माननीया एव भवति, तस्माद् व्याख्यानसमवे मुखाने मुखवत्रिकाबन्धनम् , तथा संयमिसाधोरभावे साध्व्याः परिषदने धर्मशास्त्रस्य व्याख्यानकरणं विशेषलामहेतुकम् , निर्जराकारणम् च, अतो शास्त्रश्रवणस्य अन्तरायभूतं न युक्तं | निषेधकरणम् , पूर्वाचार्यस्य शास्त्रस्य वा अवगणनाप्रसंगः स्यात् , तेन भवभीरुभिः जनैः न निषेधनीयम् , इति, शुभम् ।। परमेष्ठिपिण्डैषणातत्त्वेन्दुवर्षे आषाढशुकुतृतीयागुरुवासरेऽलेखि श्रीमत्सुमतिसागरोपाध्यायशिष्याणुमुनिना मणिसागरेण, मुंबई. N ॥२॥ For Private and Personal Use OnlyPage Navigation
1 ... 3 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 ... 577