Book Title: Kalpsutram Author(s): Bhadrabahuswami, Lakshmivallabh Upadhyay Publisher: Nirnaysagar Press View full book textPage 7
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir कल्पसूत्रं ॥१॥ श्रीकल्पसूत्रस्य गम्भीरार्थस्य श्रीगुरुप्रसादाद् अर्थः क्रियते । यथा चैत्रमासे कोकिला मधुरं वक्ति, तत्र सह-का | कल्पद्रुम कारमञ्जरी कारणम् , यच्च रजः सूर्यमण्डलमाच्छादयति, तत्र पवनस्य माहात्म्यम् , यच्च मण्डूको महाभुजंगस्य कलिका बदनं चुम्बति, तत्र मणेः प्रभावः । तथा मादृशो मन्दबुद्धिः श्रीकल्पसिद्धान्तार्थ प्रकटं वदति, तत्र श्रीज्ञान-1 वृत्तियुक्तं दातृणां गुरूणामेव प्रसादः।। व्याख्या. तंत्रादौ श्रीकल्पसिद्धान्तस्य अधिकारत्रयवाचिकेयं गाथापुरिम-चरिमाण कप्पो, मंगलं वद्धमाणतित्थम्मि । तो परिकहिआ जिण-गणहराइथेरावलिचरित्तं ॥ अस्यार्थ: प्रथमतीर्थकर-चरमतीर्थकरयोः श्रीआदिनाथ-महावीरस्वामिनोः साधूनाम्-अयं कल्पः, अयम् आचार:यत्र तिष्ठन्ति, तत्र मङ्गलं वाञ्छन्ति, वर्षाकाले चतुर्मासं यावत्-एकत्र तिष्ठन्ति, पर्युषणां कुर्वन्ति-वर्षा भवन्तु, वा मा भवन्तु । द्वाविंशतितीर्थंकरसाधूनां पुनरयम्-आचारः-मङ्गलं वाञ्छन्ति, वर्षाकाले वर्षाभावे विहारं कुर्वन्त्यपि, पर्युषणां कुर्वन्ति, न कुर्वन्ति-अपि निश्चयो नास्ति । आदीश्वर-महावीरयोः साधूनाम्-अयं निश्चयोऽस्ति, वर्षाकाले पर्युषणां कुर्वन्ति, मङ्गलार्थं श्रीआदीश्वराद् आरभ्य श्रीमहावीरस्वामिनं यावत् तीर्थक- ॥१॥ राणां चरित्रं वाचयन्ति, सर्वेषां तीर्थकराणाम् अन्तराणि कथयन्ति । प्रथमोऽयमधिकारः । पश्चाद् गणधराणां १. पूर्व-चरमयोः कल्पः, मङ्गलं वर्धमानतीर्थे । ततः परिकथितं जिन-गणधरादिस्थविरावलिचरित्रम् ॥ For Private and Personal Use OnlyPage Navigation
1 ... 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 ... 577