Book Title: Kalpsutram
Author(s): Bhadrabahuswami, Lakshmivallabh Upadhyay
Publisher: Nirnaysagar Press
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
कल्पसूत्रं
कल्पद्रुम कलिका वृत्तियुक्तं. व्याख्या.
|र्थकरसाधूनां कारणे कर्तव्यम् । ९ मासः-आदीश्वर-महावीरयोः साधूनां मासकल्पः चतुर्मासात् शेषेषु
अष्टमासेषु एव कर्तव्यः, एकस्मिन् उपाश्रये मासं स्थित्वा पुनरन्यत्र गन्तव्यम्, मार्गशीर्षादारभ्य आषाढं यावद् एकत्रैव निरन्तरं न स्थातव्यम् । श्रीआदीश्वर-महावीरयोरेव साधूनाम् अयं कल्पः । द्वाविंशतितीर्थकराणां तु कोऽपि निश्चयो नास्ति-एकस्मिन् उपाश्रये एव द्विमासीम् , त्रिमासी वा तिष्ठन्ति । १० पर्युषणाकल्पः-पर्युषणाकल्पम्-मेघो वर्षतु, अथवा मा वर्षतु, क्षेत्रयोगसद्भावे-चतुर्मासीमधितिष्ठन्ति । अथ कदाचित् क्षेत्रयोगो न भवति, तदा भाद्रपदशुक्लपञ्चमीतः प्रारभ्य सप्ततिदिनानि यावद् एकस्थाने साधवस्तिष्ठन्ति । अयम्-आदीश्वर-महावीरयोरेव साधूनामाचारः । द्वाविंशतितीर्थंकरसाधूनां तु न कोऽपि निश्चयः।। | सिक-सांवत्सरिकाणि, किंतु खाध्याय- ध्यानादीनामेव इति ॥ १. दुर्भिक्षा-ऽशक्ति-रोगादिकारणसद्भावेऽपि शाखा-पुर-पाटक-कोणक| परावर्तनेनापि सत्यापनीय एव । परं शेषकाले मासाद् अधिकं न स्थेयम् , प्रतिबन्ध-लघुत्वप्रमुखबहुदोष-संभवात् , मध्यमजिनयतिनां तु ऋजुप्राज्ञानां पूर्वोक्तदोषाभावेन अनियतो मासकल्पः। ते हि विशेषलाभसद्भावे अन्यकारणे वा देशोनां पूर्वकोटिं यावद् अपि एकत्र तिष्ठन्ति कारणे मासमध्येऽपि विहरन्ति ॥ २. अयं नियमः चन्द्रसंवत्सरापेक्षया तथापि अत्राऽयं विशेषः यदा कदाचिदशिवमुत्पद्यते, भिक्षा वा न लभ्यते, राजा वा दुष्टो भवति, ग्लानता वा जायते, तदा सप्ततिदिनेभ्योऽगिप्यन्यत्र गमने न दोषः, कदाचिच्चातुर्मास्युत्तारेऽपि वर्षा | न विरमति तदाऽधिकं तिष्ठेद् न दोषः, द्वाविंशतितीर्थकरसाधूनां तु नियमो नास्ति, वर्षाया अभावे शेषकालबद् विहारं कुर्वति ॥
॥३॥
For Private and Personal Use Only

Page Navigation
1 ... 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 ... 577