SearchBrowseAboutContactDonate
Page Preview
Page 11
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir कल्पसूत्रं कल्पद्रुम कलिका वृत्तियुक्तं. व्याख्या. |र्थकरसाधूनां कारणे कर्तव्यम् । ९ मासः-आदीश्वर-महावीरयोः साधूनां मासकल्पः चतुर्मासात् शेषेषु अष्टमासेषु एव कर्तव्यः, एकस्मिन् उपाश्रये मासं स्थित्वा पुनरन्यत्र गन्तव्यम्, मार्गशीर्षादारभ्य आषाढं यावद् एकत्रैव निरन्तरं न स्थातव्यम् । श्रीआदीश्वर-महावीरयोरेव साधूनाम् अयं कल्पः । द्वाविंशतितीर्थकराणां तु कोऽपि निश्चयो नास्ति-एकस्मिन् उपाश्रये एव द्विमासीम् , त्रिमासी वा तिष्ठन्ति । १० पर्युषणाकल्पः-पर्युषणाकल्पम्-मेघो वर्षतु, अथवा मा वर्षतु, क्षेत्रयोगसद्भावे-चतुर्मासीमधितिष्ठन्ति । अथ कदाचित् क्षेत्रयोगो न भवति, तदा भाद्रपदशुक्लपञ्चमीतः प्रारभ्य सप्ततिदिनानि यावद् एकस्थाने साधवस्तिष्ठन्ति । अयम्-आदीश्वर-महावीरयोरेव साधूनामाचारः । द्वाविंशतितीर्थंकरसाधूनां तु न कोऽपि निश्चयः।। | सिक-सांवत्सरिकाणि, किंतु खाध्याय- ध्यानादीनामेव इति ॥ १. दुर्भिक्षा-ऽशक्ति-रोगादिकारणसद्भावेऽपि शाखा-पुर-पाटक-कोणक| परावर्तनेनापि सत्यापनीय एव । परं शेषकाले मासाद् अधिकं न स्थेयम् , प्रतिबन्ध-लघुत्वप्रमुखबहुदोष-संभवात् , मध्यमजिनयतिनां तु ऋजुप्राज्ञानां पूर्वोक्तदोषाभावेन अनियतो मासकल्पः। ते हि विशेषलाभसद्भावे अन्यकारणे वा देशोनां पूर्वकोटिं यावद् अपि एकत्र तिष्ठन्ति कारणे मासमध्येऽपि विहरन्ति ॥ २. अयं नियमः चन्द्रसंवत्सरापेक्षया तथापि अत्राऽयं विशेषः यदा कदाचिदशिवमुत्पद्यते, भिक्षा वा न लभ्यते, राजा वा दुष्टो भवति, ग्लानता वा जायते, तदा सप्ततिदिनेभ्योऽगिप्यन्यत्र गमने न दोषः, कदाचिच्चातुर्मास्युत्तारेऽपि वर्षा | न विरमति तदाऽधिकं तिष्ठेद् न दोषः, द्वाविंशतितीर्थकरसाधूनां तु नियमो नास्ति, वर्षाया अभावे शेषकालबद् विहारं कुर्वति ॥ ॥३॥ For Private and Personal Use Only
SR No.034665
Book TitleKalpsutram
Original Sutra AuthorBhadrabahuswami
AuthorLakshmivallabh Upadhyay
PublisherNirnaysagar Press
Publication Year1918
Total Pages577
LanguagePrakrit
ClassificationBook_Devnagari & agam_kalpsutra
File Size81 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy