________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अत्र च षडू अस्थिरकल्पा:-१ अचेलत्वम्, २ औद्देशिकम् , ३ प्रतिक्रमणम् , ४ राजपिण्डः, ५ मासकल्पः, ६ पर्युषणाकरणम् , एतेऽस्थिरकल्पाः । अथ चत्वारः स्थिरकल्पाः-१ शय्यातरपिण्डः, २ चत्वारि व्रतानि, ३ पुरुषज्येष्ठो धर्मः, ४ परस्परं वन्दनकदानम् , एते चत्वारः स्थिरकल्पाः द्वाविंशतितीर्थंकरसाधूनामपि भवन्ति, तस्मादेते स्थिरकल्पा उच्यन्ते । यस्तु द्वाविंशतितीर्थंकरसाधूनामाचारः, स एवाऽद्य महाविदेहतीर्थकरसाधूनां ज्ञेयः॥ अथ मोक्षमार्ग प्रतिपन्नानां सर्वेषां जिनानाम् आचारभेदे कारणमाह
पुरिमाण दुब्बिसोज्झो, चरिमाणं दुरणुपालओ कप्पो । मज्झिमगाण जिणाणं सुविसोझो सुहणुपालो य॥ प्रथमतीर्थकरसमये साधूनां साधुधर्मो ज्ञातुमशक्यः, यदा जानन्ति तदा सम्यक् पालयन्ति । श्रीमहावीरस्य समये साधूनां साधुधर्मः ज्ञातुं सुकरः, परं पालयितुमशक्यः । अथ द्वाविंशतितीर्थकरसाधु-साध्वीनां धर्मो | ज्ञातुमपि सुकरः, पालयितुमपि सुकरः। गाथा
उजुजडा पढमा खलु नडाइनायाओ हुंति नायव्वा । वक्कजडा पुण चरिमा उज्जपण्णा मज्झिमा भणिआ॥ | अत्र दृष्टान्तमाह-यथा एकस्मिन् नगरे चतुष्पथे साधुभिर्गोचरचर्यार्थं गच्छद्भिः नर्तकानां टोलकं नर्तद्
१. पूर्वेषां दुर्विशोध्यः, चरमाणां दुरनुपालकः कल्पः । मध्यमकानां जिनानां सुविशोध्यः सुखानुपाल्यश्च ॥ २. ऋजुजडाः प्रथमाः खलु नटादिज्ञाताद् भवन्ति ज्ञातव्याः । वक्रजडाः पुनश्चरमा ऋजुप्रज्ञा मध्यमा भणिताः ।।
For Private and Personal Use Only