________________
Shri Mahavir Jain Aradhana Kendra
कल्पसूत्रं
॥ ४ ॥
www.kobatirth.org
Acharya Shri Kallassagarsuri Gyanmandir
| दृष्टम् । भूयसी वेला लग्ना । यदा आहारमानीय उपाश्रये साधवः समागताः, तदा गुरुभिः पृष्टम् - भो मुन यः ! अद्य भवतां कथं बह्वी वेला लग्ना ? तदा तैरुक्तम् अद्य नर्तकानां नाटकं दृष्टम् । गुरुभिरुक्तम् - साधुभिर्नाटकं न विलोकनीयम् । तैरपि 'तथास्तु' इति अङ्गीकृत्य मिथ्यादुष्कृतं दत्तम् । अथ पुनरन्यस्मिन् दिने त एव साधवो गोचरचर्यायां विहरन्तो नर्तकीनां नाटकं ददृशुः । तथैव भूयसी वेला लग्ना । आहारं लात्वा यदा उपाश्रये आजग्मुः, तदा गुरव ऊचुः - भो मुनयः ! अब पुनः प्रचुरा वेला कथं लग्ना ? तदा तैरुक्तम्- अद्य नर्तकीनां नर्तनमस्माभिर्दृष्टम् तेन इयती बेला लग्ना । गुरुभिरूचे भो महानुभावाः ! यूयं पुरा एव अस्माभिर्नाटके निषिद्धाः कथमद्य नाटकविलोकनाय प्रवृत्ताः ? तदा तैरुक्तम्भवद्भिः पुरुषनाटकं निषिद्धम्, अद्य तु स्त्रीनाटकम् - अनिषिद्धं ज्ञात्वा अस्माभिर्ददृशे । गुरुभिरुक्तम् - साधुभिः सर्व स्त्री-पुरुषयोर्नाटकं सर्वथा न विलोकनीयम् । तैरप्युक्तम्- अतः परं नैवं विधास्यामः । मिथ्यादुष्कृतमस्माकम् । एतादृशाः श्रीआदीश्वरस्य | समये एव ऋजुजडा जीवाः - यत् कार्यं कृत्यं तेभ्यो निवेद्यते तावदेव जानन्ति, नाधिकं किमपि जानन्ति ॥
पुनरपि कोङ्कणदेशोद्भवसाधुरेक ईर्यापथिकीं प्रतिक्रामन् कायोत्सर्गमध्ये स्वपुत्राणां प्रमादं चिन्तयति स्म - अहो ! इदानीं सौरेयो वायुर्वाति, प्रमादिनो मत्पुत्राः, क्षेत्रेषु सदनं न करिष्यन्ति, घास-वृक्षादिकं न ज्वालयिष्यन्ति, मेघे वर्षति किमपि न भविष्यति, अहं यदा गृहेऽस्थाम्, तदा सर्वमेव अहमकार्षम्, अथ च गृहे
For Private and Personal Use Only
कल्पद्रुम कलिका
वृत्तियुक्तं.
व्याख्या.
१
|| 8 ||