________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsun Gyanmandir
नास्मि अहम् , ते वराकाः मत्पुत्राः क्षुधया मरिष्यन्ति, इति चिन्तयन् आसीत् । यदा सर्वैः कायोत्सर्गः पारितः, तदा गुरुभिः कौङ्कणो मुनिः पृष्टः-भो मुने ! कौङ्कण ! भवता किं स्मर्यते ? तदा कौङ्कणोऽवादीत्-मया| जीवदया चिन्तिता । गुरुभिरूचे-भो मुने ! त्वया आरम्भः स्मृतः, न दया चिन्तिता, एतादृशः आरम्भः कदापि साधुभिर्न स्मर्तव्यः । तदा कौङ्कणेन श्रद्धापूर्वकं मिथ्यादुष्कृतं दत्तम् । एवम् ऋजुजडानां बहवो दृष्टान्ताः॥
महावीरस्वामिनो वारकस्य जीवा वक्रजडाश्च वर्तन्ते । तत्र दृष्टान्तो यथा-एकस्मिन् नगरे कश्चिदेकः श्रेष्ठी| वसति । तत्पुत्रो दुर्विनीतो वक्रो जडश्चासीत् । मातापित्रोः सम्मुखं जल्पति । शिक्षा न मनुते । एकदा मातृ-| पितृभ्यां मधुरवाक्यैः शिक्षा दत्ता-हे पुत्र ! खजनसंबन्धिजनसमक्षम् , वृद्धानां सम्मुखं च कदापि न जल्प-| |नीयम् , प्रत्युत्तरं न दातव्यम् । पुत्रेणोक्तम्-साधु, एवमेव करिष्यामि । अन्यदा प्रस्तावे गृहस्य सर्वे मनुष्यास्तं | १. तत्र केचिद् वीरतीर्थसाधवो नटं नृत्यन्तमवलोक्य गुरुसमीपमागताः, गुरुभिः पृष्टाः, निषिद्धाश्च नटावलोकनं प्रति, पुनरन्यदा नटी नृत्यन्तीं विलोक्य आगताः, गुरुभिस्तथैव पृष्टा वक्रतया अन्यानि उत्तराणि ददुः, बाढं पृष्टाश्च सत्यं प्रोचुः; गुरुभिः उपालम्भे च दत्ते सम्मुखं गुरूनेव उपालम्भयन्त: यदस्माकं तदा नटनिषेधसमये नटीनिषेधोऽपि कुतो न कृतः, भवतामेव अयं दोषः, अस्माभिः किं ज्ञायते इति ॥
For Private and Personal Use Only