________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsur Gyanmandir
कल्पमूत्रं ॥५॥
पुत्रं गृहे मुक्त्वा, गृहं भलाप्य, अन्यत्र खजनगृहे गत्वा, कार्यादिकं कृत्वा यदा गृहे आगताः, पश्चात् स च कल्पदम द्वारं पिधाय गृहमध्ये स्थित आसीत् । तैश्च कपाटं पिहितं दृष्ट्वा स पुत्रो नाम्ना शब्दितः-भोः पुत्रक ! कपाटं कलिका समुद्घाटय । स च तेषां शब्दं श्रुत्वा, मातृपितृदत्तां शिक्षा स्मृत्वा, शृण्वानोऽपि प्रत्युत्तरं न ददाति, मध्ये वृत्तियुक्तं.
व्याख्या. हसति, गायति, जल्पति; परं तेभ्यः प्रतिवचनमेव न ब्रूते । तदा तैरेव परवर्त्मना भूत्वा, गृहमध्ये उत्तीर्य, कपाटमुद्धाट्य तस्मै निवेदितम्-कथं भोः पुत्र! त्वमस्माकं शब्दं शृण्वन् प्रत्युत्तरं नादाः। तदा सोऽप्यवादीत्भवद्भिरेवाऽहं शिक्षितो वृद्धानां सम्मुखं न जल्पनीयम् । तदा पित्रोक्तम्-ईय॑या, उत्तालतया च न जल्पनी-IN यम् । तेनोक्तम्-प्रमाणम् । अथ शनैरेव वक्ष्यामि । अन्यदा प्रस्तावे पिता लोकानां मध्ये हथाहिकायां स्थित आसीत् । तदा गृहे अग्निर्लग्नः । जनन्या प्रोक्तम्-भोः पुत्र ! त्वं शीघ्रं गत्वा तव जनकमाहृय आगच्छ, कथय, त्वया शीघ्रम्-आगत्य गृहमध्यात् सम्यक्तरं वस्तु सर्व निष्कासनीयम् , अग्निर्विध्यापनीयः । सोऽपि तत्रागत्य लोकान् दृष्ट्वा चिन्तयामास-इदानीं लोकसमक्षं न बदेयम् । पित्रैव निषिद्धोऽस्मि-उत्तालतया न ॥५॥ जल्पनीयम् । एवं ज्ञात्वा तत्रैवागत्य तूष्णी स्थितः, घटिकामेकां स्थित्वा शनैरागत्य कर्णे उक्तम्-गृहे अग्निलग्नोऽस्ति, त्वमागच्छ, पित्रोक्तम्-कियती वेला लग्ना? तेनोक्तम्-घटिकैकाऽभूत् । पित्रा उक्तम्-रे मूर्ख !
For Private and Personal Use Only