________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
इयती बेला जाता, त्वया पुरा एवं कथं नोक्तम् ? तेनोक्तम् भवतैव निषिद्धः, लोकसमक्षम् उत्तालतया न वक्तव्यम् । एतादृशा वक्रजडा जीवा भवन्ति । पुनरपि बहवो वक्र - जडानां दृष्टान्ताः संति ॥
द्वाविंशतितीर्थकराणां साधवस्तु ऋजुप्राज्ञाः - सरलाः पण्डिताश्च बभूवुः । तदर्थं द्वाविंशतितीर्थंकरसाधूनां चत्वारि व्रतानि प्रतिपादितानि । श्रीआदीश्वर - महावीरयोः साधूनां पञ्च महाव्रतानि उक्तानि ॥
अथ साधवो यस्मिन् क्षेत्रे चतुर्मासीमधितिष्ठन्ति, तस्य क्षेत्रस्य गुणान् निवेदयति, गाथाचिखल पाण थंडिल वसही गोरस जिणाउले विज्जे । ओसह निचयाहिवई पाखंडी भिक्ख सज्झाए | अर्थ :- १ यस्मिन् ग्रामे पङ्कः स्तोको भवति । २ यस्मिन् ग्रामे द्वीन्द्रिय-त्रीन्द्रिय-चतुरिन्द्रियजीवाः प्रायश्चाल्पा भवन्ति । ३ पुनर्यत्र स्थण्डिलो - बहिर्भूमिर्निरवद्या भवति । ४ पुनर्यस्मिन् ग्रामे वसतिः-धर्मशाला सम्यग् भवति । ५ पुनर्यत्र गोरसो- दधि- दुग्ध घृत-तक्रादिकं प्रचुरं मिलति । ६ पुनर्यस्मिन् ग्रामे
१. तत्र दृष्टान्तो यथा - केचिद् अजितादिजिनयतयो नटं निरीक्ष्य चिरेणागता गुरुभिः पृष्टा यथास्थितम् अकथयन् गुरुभिश्च निषिद्धा: अथान्यदा ते बहिर्गता नहीं नृत्यन्तीं विलोक्य प्राज्ञत्वाद् विचारयामासुः यदस्माकं रागहेतुत्वाद् गुरुभिः नटनिरीक्षणं निषिद्धम्, तर्हि नटी तु अत्यन्तरागकारणत्वात् सर्वथा निषिद्धा एव इति विचार्य नटीं न अवलोकितवन्तः ॥ २. पङ्कः प्राणाः स्थण्डिलः वसतिगरसं जिनाकुलं वैद्यः । औषधं निचयाधिपतिः पाखण्डी भिक्षा स्वाध्यायः ॥
1
For Private and Personal Use Only