SearchBrowseAboutContactDonate
Page Preview
Page 17
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir कल्पसूत्रं जैनानां कुलं भवति-श्राद्धाश्च प्रचुरा भवन्तीत्यर्थः । ७ पुनर्यत्र वैद्या व्याधिहर्तारो भवन्ति । ८ पुनर्यत्र ग्रामे | कल्पद्रुम औषधानि बहनि मिलन्ति । ९ पुनर्यस्मिन् ग्रामे निचयो धान्यादिसंग्रहो भवति । १० पुनर्यस्मिन् ग्रामे अधि-G कलिका पति-ग्रामाधीशो-भव्यो भवति । ११ पुनर्यस्मिन् ग्रामे पाखण्डिनः स्तोका भवन्ति । १२ पुनर्यस्मिन् ग्रामे वृत्तियुक्तं. भिक्षा सुलभा भवति । १३ पुनर्यस्मिन् ग्रामे पठनम् , गुणनम्, धर्मध्यानं च सुखेन भवति । एते त्रयो व्याख्या. दश गुणा यत्र क्षेत्रे भवन्ति, तत्र चातुर्मास्यां साधुभिः स्थातव्यम् । कदाचिद् यत्र त्रयोदशगुणा न भवन्ति, तदापि चत्वारो गुणा एते अवश्यं युज्यन्ते एव । त चामी गुणाः___ महई विहारभूमी विहारभूमी असुलहसज्झायो । सुलहा भिक्खा य जहिं जहन्नं वासखित्तं तु॥ १ यत्र ग्रामे तीर्थंकराणां गृहाणि भवन्ति । २ यस्मिन् ग्रामे विहारभूमिः-प्राऽसुकस्थण्डिलभूमिः-भवति, यतो जन्तूनां विराधना स्तोका भवति । ३ यस्मिन् क्षेत्रे खाध्यायः सुखेन भवति । ४ पुनर्यस्मिन् क्षेत्रे भिक्षा सुखेन लभ्यते । एतैश्चतुर्भिर्गुणैर्युक्तं क्षेत्रं जघन्यं ज्ञेयम् । पूर्वोक्तैस्त्रयोदशगुणैर्युक्तं तु क्षेत्रम्-उत्कृष्टं ज्ञेयम् ॥ अथ सर्वेषां लौकिकपर्वणाम् , अथ च लोकोत्तराणां च पर्वणां मध्ये श्रीपर्युषणापर्व सर्वोत्कृष्टं वर्तते । तद्वर्णनकाव्यमाह १. महती विहार( जिनायतन )भूमिः विहारभूमिश्च सुलभस्वाध्यायः । सुलभा भिक्षा च यत्र जघन्यकं वर्षाक्षेत्रं तु ।। For Private and Personal Use Only
SR No.034665
Book TitleKalpsutram
Original Sutra AuthorBhadrabahuswami
AuthorLakshmivallabh Upadhyay
PublisherNirnaysagar Press
Publication Year1918
Total Pages577
LanguagePrakrit
ClassificationBook_Devnagari & agam_kalpsutra
File Size81 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy